य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः। तदेव शुक्रं तद् ब्रह्म तदेवामृतमुच्यते। तस्मिंल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन। एतद्वै तत् ॥
॥ लिप्यन्तरणम् ॥
ya eṣa supteṣu jāgarti kāmaṁ kāmaṁ puruṣo nirmimāṇaḥ | tadeva śukraṁ tad brahma tadevāmṛtamucyate | tasmiṁllokāḥ śritāḥ sarve tadu nātyeti kaścana | etadvai tat ||
॥ अन्वयः ॥
यः एषः पुरुषः सुप्तेषु कामं कामं निर्मिमाणः जागर्ति तत् एव शुक्रम्। तत् ब्रह्म। तत् एव अमृतम् उच्यते। सर्वे लोकाः तस्मिन् श्रिताः। तत् उ कश्चन न अत्येति। एतत् वै तत् ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ eṣaḥ puruṣaḥ supteṣu kāmaṁ kāmaṁ nirmimāṇaḥ jāgarti tat eva śukram| tat brahma| tat eva amṛtam ucyate| sarve lokāḥ tasmin śritāḥ| tat u kaścana na atyeti| etat vai tat ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ हृदयपुण्डरीकान्तर्वर्ती परमात्मा ]
अथ यत्प्रवक्ष्यामीति प्रतिज्ञातं तद्ब्रह्माऽह - य इति ।
य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः ।
तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।
तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन ॥ एतद्वै तत् ॥८॥
प्राणिषु प्रसुप्तेषु, य एष पुरुषः कामं कामं निर्मिमाणो जागर्ति तदेव ब्रह्म । कामं काममिति णमुलन्तम्, सङ्कल्प्येत्यर्थः । संकल्पमात्रेण सृजति स्वाप्नानर्थानिति यावत् । जीवस्य तु कर्मणा नियन्त्रितस्य करणसापेक्षज्ञानप्रसरस्यो परते ष्वखिलेषु करणेष्वस्ताखिलव्यापारस्य सङ्कल्पमात्रेणार्थविशेषनिर्माणसामर्थ्यं न घटेतेति परब्रह्मणः पुरुषोत्तमस्यैव तदानीं तत्स्रष्टृत्वमिति भावः । तदेव शुक्रम् - सर्वतः शुभ्रम् ; प्रकाशकमित्येतत् । तदेवामृतम् - निरुपाधिकं भोग्यभूतमुच्यते । अनवधिकानन्दत्वान्निरवधिकभोग्यं हि तत् ॥८॥
॥ आङ्गल-अर्थः ॥
This that waketh in the sleepers creating desire upon desire, this Purusha, Him they call the Bright One, Him Brahman, Him Immortality, and in Him are all the worlds established; none goeth beyond Him. This is the thing thou seekest.
॥ हिन्दी-अर्थः ॥
''यह 'पुरुष' जो नानाविध कामनाओं की सृष्टि करते हुए सोते हुओं में जागता रहता है, 'वही' 'ज्योतिर्मय पुरुष', 'वही' 'ब्रह्म', 'वही' 'अमृतत्व' कहलाता है। 'उसमें' ही समस्त लोक-लोकान्तर आश्रित हैं; कोई भी 'उससे' परे नहीं जाता। यही है 'वह' जिसकी तुम्हें अभीप्सा है।
॥ शब्दावली ॥
यः एषः पुरुषः - yaḥ eṣaḥ puruṣaḥ - this Purusha that
सुप्तेषु - supteṣu - in the sleepers
कामम् कामम् - kāmam kāmam - desire upon desire
निर्मिमाणः - nirmimāṇaḥ - creating
जागर्ति - jāgarti - waketh
तत् एव शुक्रम् - tat eva śukram - the Bright One
तत् ब्रह्म - tat brahma - the Brahman
तत् एव अमृतम् - tat eva amṛtam - the Immortality
उच्यते - ucyate - is called
सर्वे लोकाः - sarve lokāḥ - all the worlds
तस्मिन् श्रिताः - tasmin śritāḥ - are established in Him
तत् उ - tat u - Him
न कश्चन अत्येति - na kaścana atyeti - none goeth beyond
एतत् वै तत् - etat vai tat - this is the thing thou seekest
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know