अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव। एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥
॥ लिप्यन्तरणम् ॥
agniryathaiko bhuvanaṁ praviṣṭo rūpaṁ rūpaṁ pratirūpo babhūva | ekastathā sarvabhūtāntarātmā rūpaṁ rūpaṁ pratirūpo bahiśca ||
॥ अन्वयः ॥
यथा एकः अग्निः भुवनं प्रविष्टः सन् रूपं रूपं प्रतिरूपः बभुव तथा एकः सर्वभुतान्तरात्मा रूपं रूपं प्रतिरूपः भवति । बहिः च ॥
॥ अन्वयलिप्यन्तरणम् ॥
yathā ekaḥ agniḥ bhuvanaṁ praviṣṭaḥ ( san ) rūpaṁ rūpaṁ pratirūpaḥ babhuva tathā ekaḥ sarvabhutāntarātmā rūpaṁ rūpaṁ pratirūpaḥ ( bhavati )| bahiḥ ca ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ एकस्यैव परमात्मनः सर्वान्तरात्मत्वम् ]
ननु परस्य ब्रह्मणः सर्वभूतान्तरात्मत्वे, अप्रतिहतज्ञानशक्तयादिकेनैतेनैकेनात्मना अधिष्ठितानामेषां कथं वा ज्ञानादिवैलक्षण्यम्, शरीरभेद इव जीवभेदस्त्वप्रयोजकः, न ह्येकात्माधिष्ठितेषु वैषम्यं घटेतेति शङ्कां दृष्टान्ततः परिहरन्नन्तरात्मत्त्वमवगमयति - अग्निरिति ।
अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।
एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च ॥९॥
यथा अग्निर्भुवनं प्रविष्टः स्वतः कुटिलत्वदीर्घत्वादिवैषम्यरहित एकरूपोऽपि दाह्यं दार्वादिभुवनं प्रविष्ट: प्रतिरूपो बभूव व्याप्यतत्तद्वस्तुस्वरूपो बभूव । कुटिलं व्याप्य कुटिल इव दीर्घं व्याप्य दीर्घ इव च प्रतीयत इत्येतत् । तथा सर्वभूतान्तरात्मा देवमनुष्यादितत्तत्प्राणिवर्गे प्रविष्टः, स्वयमकर्मवश्यतया ज्ञानसङ्कोचविकासादिवैषम्यरहितोऽपि, देवं व्याप्य तत्सरूप इव, मनुष्यं व्याप्य तत्सरूप इवाभाति ।
अयं भावः - कर्मविशेषेण मनुष्ययोनिमापन्नान् ज्ञानसङ्कोचविशेषमापन्नान् चेतनान्व्याप्य नियमयन्नयं परमात्मा स्वयमसङ्कुचितज्ञानोऽपि देवानिव न चेतयेत् तत्तत्कर्मसापेक्षत्वादेत- त्कृताधिष्ठानस्य, तथा च व्याप्यचेतनविशेषान्कर्मवश्यान्स्वयम् अकर्मवश्योऽप्रतिहतज्ञान- शक्तिकोऽपि तत्तत्कर्मानुगुणमेव व्यापारयतीति तत्तत्स्वरूप इव भवतीत्युक्तिरिति । एतेनाप्रतिहतज्ञानशक्त्यादिकेन सर्वान्तरात्मनैकेनाधिष्ठितत्वेऽप्यधिष्ठानस्य कर्मसापेक्षत्वाद- धिष्ठेयेषु चेतनेषु योनिभेदेन ज्ञानादिवैषम्यमपरिहार्यमेवेति सिद्धम् । तदेवमन्तर्यामितायां तत्तत्कर्मानुरूपमेव व्यापारयन्नप्रकाशितज्ञानशक्त्यादिरास्ते । स्वे धाम्नि स्वेन रूपेणावस्थितौ तु ज्ञानशक्त्यादिकमात्मनः सर्वदा प्रकाशयन्नेवास्त इत्यभिप्रेत्याह - बहिश्च इति । चस्त्वर्थे । अन्तर्यामिभावादन्यत्र तु ।
यद्वा- परस्य ब्रह्मणः सर्वभूतेष्वन्तर्बहिश्च व्याप्तिं दृष्टान्तपूर्वकमवगमयति- अग्निरिति । अग्निरिह तेजः । न ह्यग्निनाऽव्याप्तः कश्चिद्देशः, स हि सर्वत्र सूक्ष्मरूपेण सन्निहितः, इयांश्च विशेषः, स्थूलेषु जलादिसकलभूतेष्वन्तर्व्याप्यास्ति । यत्तु सूक्ष्मं तत्र तु बहिरेव केवलं व्याप्तः । तदेवमन्तर्बहिश्च व्याप्य वर्तमानोऽप्यविषम एव यथाऽयं, तथा सर्वभूतान्तरात्माऽन्तर्बहिश्चाविषम एव व्याप्य वर्तत इत्याशयेनाह अग्निर्यथा भुवनं प्रविष्टो बहिश्च एकस्तथा सर्वभूतान्तरात्मेति । परंब्रह्म अन्तर्यामितया सूक्ष्मरूपेण सर्वभूतेष्वन्तर्बहिश्च व्याप्य वर्तमानं, बहिरन्त:प्रदेशरूपोपाधिभेदेऽपि स्वयमविषममेवेति भावः । अन्तः प्रवेशे विशेषमाह - रूपं रूपमिति । यथाऽविषमोऽप्यग्निः भूतेष्वन्तः प्रविष्टः प्रतिरूपो बभूव - भिन्नभिन्नरूपो बभूव, एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपः ।
अयमाशयः जलपृथिव्यादिष्वन्तः सन्निहितोऽप्यग्निरविभागविशेषात्पृथगाकारा- दिकमलभमानः जलमित्येव पृथिवीत्येव भिन्नभिन्नतत्तदाकारतत्तन्नामादिव्यपदेशमर्हति तथा परमात्मा तत्र तत्र अन्तर्यामितया सन्निहितोऽविभागविशेषाद्भिन्नभिन्नतत्तदाकारनामादिगोचरो भवतीति ।
परे तु - तत्र तत्रान्तर्यामी भिन्नभिन्नविग्रहश्चकास्तीति योजयन्ति । अयमेको भगवदवतारविशेष इति तेषां हृदयम् ॥९॥
॥ आङ्गल-अर्थः ॥
Even as one Fire hath entered into the world but it shapeth itself to the forms it meeteth, so there is one Spirit within all creatures but it shapeth itself to form and form; it is likewise outside these.
॥ हिन्दी-अर्थः ॥
''जिस प्रकार एक ही 'अग्नि' भुवन में प्रविष्ट हुआ है किन्तु यह जिस रूप के सम्पर्क में आता है उसका ही प्रतिरूप धारण कर लेता है, उसी प्रकार समस्त भूत-प्राणियों में विद्यमान 'अन्तरात्मा' एक ही है परन्तु रूप-रूप के सम्पर्क से वैसावेसा प्रतिरूप बन जाता है; इसी प्रकार वह उनसे बाहर भी है।
॥ शब्दावली ॥
यथा - yathā - even as
एकः अग्निः - ekaḥ agniḥ - one Fire
भुवनम् प्रविष्टः - bhuvanam praviṣṭaḥ - having entered into the world
रूपम् रूपम् - rūpam rūpam - form and form
प्रतिरूपः बभुव - pratirūpaḥ babhuva - shapeth itself to
तथा - tathā - so there is
एकः सर्वभुतान्तरात्मा - ekaḥ sarvabhutāntarātmā - one Spirit within all creatures
रूपम् रूपम् - rūpam rūpam - form and form
प्रतिरूपः - pratirūpaḥ - shapeth itself to
बहिः च - bahiḥ ca - it is likewise outside these
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know