जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

MK PANDEY PRESIDNT OF GVB

MK PANDEY PRESIDNT OF GVB

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

यः सर्वज्ञः सर्वविद्‌ यस्यैष महिमा भुवि। दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥



यः सर्वज्ञः सर्वविद्‌ यस्यैष महिमा भुवि। दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा प्रतिष्ठितः ॥

लिप्यन्तरणम्

yaḥ sarvajñaḥ sarvavid yasyaiṣa mahimā bhuvi | divye brahmapure hyeṣa vyomnyātmā pratiṣṭhitaḥ ||

अन्वयः

यः सर्वज्ञः सर्ववित् भुवि यस्य एषः महिमा एषः आत्मा दिव्ये ब्रह्मपुरे व्योम्नि प्रतिष्ठितः हि ।

अन्वयलिप्यन्तरणम्

yaḥ sarvajñaḥ sarvavit bhuvi yasya eṣaḥ mahimā eṣaḥ ātmā divye brahmapure vyomni pratiṣṭhitaḥ hi |

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

'अन्तश्चरत' इति शरीरान्तः स्थित्युक्तेः स्यात्कस्यचिज्जीव एवायमिति भ्रमस्तमपाकरोति - यः सर्वज्ञ इति ।

यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि ।

दिव्ये ब्रह्मपुरे ह्येष व्योमन्यात्मा प्रतिष्ठितः ।

मनोमयः प्राणशरीरनेता प्रतिष्ठितोऽन्ने हृदयं सन्निधाय ।

तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपममृतं यद्विभाति ॥७॥

भ्रमस्य चेदल्पोऽप्यवसरः सहि सपदि निराकर्तव्यः, अत एव 'गुहाचर' मिति निर्देशेन सम्भाव्यमानो जीवभ्रमः 'परं विज्ञाना' दित्यपाकृतः प्रथममन्त्रे । अन्तश्चरति नामैषः, प्रतिष्ठितस्तु दिव्ये व्योम्नि ब्रह्मपुरे हि - अप्राकृताकाशे ब्रह्माख्ये पुरे - स्थानविशेषे प्रकर्षेण दिव्यमूर्त्या स्थितः । एष महिमा भुवि सर्वो यस्यास्यैव यः प्रतपति तपनः यः पवते पवनः, ये चान्ये विविधा भावा: सर्वमेतद्यस्यैश्वर्यैकदेशः । यः सर्वज्ञः सर्ववित् । तदस्य शरीरान्त:सञ्चरणोक्तिमात्रेण जीव एवायमिति न भ्रमितव्यमिति भावः । एवंभूतोऽप्ययमन्ने - शरीरे, हृदयं सन्निधाय - सङ्गत्य प्रतिष्ठितः । किं कर्मणा ? नेत्याह - मनोमयः - मनःशब्देन सङ्कल्पो लक्ष्यते, सङ्कल्पप्रचुरः, सङ्कल्प एवास्य हृदयगुहाप्रवेशे साधनं न कर्मेत्यर्थः । सङ्कल्पमात्रेण हृदयेऽवतीर्ण इति यावत् । कस्मै फलाय ? प्राणशरीरनेता प्राणो जीवः, शरीरमन्नपरिणतिः, तयोरुभयोर्नियामकः । नियमनमेव प्रयोजनमित्युक्तं भवति । तद्विज्ञानेन - तस्यास्यान्तर्यामिस्वरूपस्य विज्ञानेन - विशिष्टज्ञानेन । परिपश्यन्ति परित: साक्षात्कुर्वन्ति । किं तत् ? आनन्दरूपममृतं यद्विभाति आनन्द एव रूपं दिव्याकारस्वरूपं वा यस्य तत् । विशेषेण परे व्योम्नि ब्रह्मपुरे प्रकाशते नित्यमुक्तानाम् ।

यद्वा - 'अन्तश्चरते बहुधा जायमान' इति निर्देशमात्रेणायमेव जीव इति न भ्रमितव्यम्, द्वौ ह्यस्मिन् शरीरे निवसतः, निवसतोर्निरूपके च भिद्येते, तथा तत्तदधिष्ठेयाकारश्च तदन्य एव जीवादयम् । तथाहि - यः सर्वज्ञः सर्वविद्यस्यैष महिमा भुवि, एष हि सर्वज्ञः सर्वशक्तः सन्निहितः, अपरस्तु न तथा, किन्तु मनोमयः प्राणशरीरनेता मनोमयः - जीवः स्वयं ज्ञानमयोऽपि कर्मणा सङ्कुचितज्ञानप्रभो मनसोपाधिना समाश्लिष्टस्तद्वृत्तिप्रचुरस्तन्मयो भूत्वा सङ्कल्पविकल्पादिसमुत्थितरागद्वेषाद्यभिभूतो दुःखसागरनिमग्नो वर्तते । मयत्र प्राचुर्ये । मनःशब्दो मानसवृत्तिपरः । यतो मनोमयः, तत एव प्रयाणकाले मनो यदनुधावति, तदनु प्राणानाम् - इन्द्रियाणां मुख्यप्राणस्य, सूक्ष्मशरीरस्य च नेता । यथा दह्यमाने कुटीरे भिक्षुकः सपदि दग्धावशिष्टं गृहीत्वाऽपसर्पेदेवमपसर्पन्नयं फल्गुः । यस्यैष महिमा भुवि स तेन सहैकस्मिन्प्रदेशे वसतिमात्रेण कथं तदभेदी स्यात् । एवं यद्यपि द्वाभ्यामधिष्ठितं शरीरमेकम्, अधिष्ठेयाकारस्तु भिद्यते, दिव्ये ब्रह्मपुरे व्योमनि ह्येष प्रतिष्ठित: - एष सर्वज्ञः प्रजा रक्षितुं राजा पुर इव पुरेऽस्मिन् शरीरे प्रतिष्ठित: । अतो ब्रह्मणः पुरमिदमिति ब्रह्मपुरमिति निर्देशश्च स्वरसः । पुरशब्दस्वारस्यात् षष्ठी स्वस्वामिभावसम्बन्धमेवोत्सर्गतो बोधयेत् । पुरस्य रक्षणं च पौराणां नियमनद्वारैवेति पौरस्थानीयस्य जीवस्य नियाम्यत्वं गम्यते । दिव्यशब्द आश्चर्यपर: । 'विचित्रा देहसम्पत्ति:' इति हि स्मर्यते । उत्कृष्टपरो वा । मानुषशरीरस्य विद्याधिकारापादकतयेतरत उत्कृष्टता । पश्वादिभ्यो ज्ञानप्रसरणाधिक्येन द्योतनयोगाद्वा तथोक्तिः । व्योमनीति व्योमत्वेन विशिष्य निर्देशादधिवसितुर्मालिन्यानापादकता शरीरसम्बन्धस्य व्यज्यते । मनोमयस्तु प्रतिष्ठितोऽन्ने अत्ताऽयमन्ने प्रतिष्ठितः, ममेदमत्तुः फलभोगायेति रमत इति यावत् । व्योमनीत्यनुक्त्वा हृदयं सन्निधायेति सलेपद्रव्यनिर्देशेन शरीरसम्बन्धेन जीवस्य सुखदुःखादियोगरूपमालिन्यसम्भवो व्यज्यते । तदेवमनयोर्वैलक्षण्यमुक्त्वा प्रकृतमुपसंहरति तद्विज्ञानेनेति । तस्य जीवात्मनो विज्ञानेन - प्रकृतिविविक्तस्वरूपचिन्तनेनाङ्गभूतेन तत्सन्निहितमानन्दरूपममृतं यद्विभाति परमात्मस्वरूपमुक्तसर्वज्ञत्वादिगुणविशिष्टम्, तद्धीराः साक्षात्कुर्वन्ति । एतेन प्रत्यगात्मस्वरूपमसाक्षात्कृतवतां पार्श्वस्थस्य परमात्मनः साक्षात्कारो न भवेदिति व्यज्यते । तत् विज्ञानेनेति वा पृथक्पदच्छेद: । अनयोर्मध्ये यदानन्दरूपममृतं विभाति - विशेषतः प्रकाशते, तत् - परमात्मतत्त्वम्, विज्ञानेन पूर्वोक्तेन ध्यानरूपेण साक्षात्कुर्वन्तीत्यर्थः ॥७॥

॥ आङ्गल-अर्थः ॥

The Omniscient, the All-wise, whose is this might and majesty upon the earth, is this self enthroned in the divine city of the Brahman, in his ethereal heaven.

॥ हिन्दी-अर्थः ॥

जो 'सर्वज्ञ' है 'सर्वविद्' है जिसकी पृथ्वी पर यह सब महिमा है यह 'आत्मा' ही है जो इस दिव्य ब्रह्मपुरी में, इस व्योम में प्रतिष्ठित है।

शब्दावली

यः सर्वज्ञः - yaḥ sarvajñaḥ - the Omniscient

सर्ववित् - sarvavit - the All-wise

यस्य - yasya - whose

भुवि - bhuvi - upon the earth

एषः महिमा - eṣaḥ mahimā - is this might and majesty

एषः आत्मा - eṣaḥ ātmā - is this self

दिव्ये ब्रह्मपुरे - divye brahmapure - in the divine city of the Brahman

व्योम्नि हि - vyomni hi - in the ethereal heaven

प्रतिष्ठितः - pratiṣṭhitaḥ - enthroned


एक टिप्पणी भेजें

0 टिप्पणियाँ