अरा इव रथनाभौ संहता यत्र नाड्यः स एषोऽन्तश्चरते बहुधा जायमानः। ओमित्येवं ध्यायथ आत्मानं स्वस्ति वः पाराय तमसः परस्तात् ॥
॥ लिप्यन्तरणम् ॥
arā iva rathanābhau saṁhatā yatra nāḍyaḥ sa eṣo'ntaścarate bahudhā jāyamānaḥ | omityevaṁ dhyāyatha ātmānaṁ svasti vaḥ pārāya tamasaḥ parastāt ||
॥ अन्वयः ॥
रथनाभौ अराः इव यत्र नाड्यः संहताः बहुधा जायमानः स एषः आत्मा अन्तः चरते आत्मानं ॐ इति एवं ध्यायथ वः तमसः परस्तात् पाराय स्वस्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
rathanābhau arāḥ iva yatra nāḍyaḥ saṁhatāḥ bahudhā jāyamānaḥ sa eṣaḥ ( ātmā ) antaḥ carate ātmānaṁ om iti evaṁ dhyāyatha vaḥ tamasaḥ parastāt pārāya svasti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
यस्मिन्द्यौः पृथिवी चान्तरिक्षमोतं मनः सह प्राणैश्च सर्वैः ।
तमेवैकं जानथाऽऽत्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥५॥ इत्यत्र व्याख्यातम् ।
॥ आङ्गल-अर्थः ॥
Where the nerves are brought close together like the spokes in the nave of a chariot-wheel, this is He that moves within, -there is He manifoldly born. Meditate on the Self as OM and happy be your passage to the other shore beyond the darkness.
॥ हिन्दी-अर्थः ॥
रथ के चक्र की नाभि में जुडे़ हुए अरों की भाँति जहाँ नाड़ियाँ एकत्रित हो जाती हैं, 'वह' ही है जो अन्तर में विचरण करता है,- 'वही' बहुविध रूप में जन्म लेता है। 'आत्मा' का 'ओम्', के रूप में ध्यान करो, तथा अन्धतमस् से परे उस पार जाने का तुम्हारा मार्ग मंगलमय (स्वस्ति) हो।
॥ शब्दावली ॥
रथनाभौ - rathanābhau - in the nave of a chariot-wheel
अराः इव - arāḥ iva - like the spokes
यत्र - yatra - where
नाड्यः - nāḍyaḥ - the nerves
संहताः - saṁhatāḥ - are brought close together
बहुधा जायमानः - bahudhā jāyamānaḥ - manifoldly born
स एषः - sa eṣaḥ - this is He that
अन्तः - antaḥ - within
चरते - carate - moves
आत्मानम् - ātmānam - on the Self
ॐ इति - om iti - as OM
एवम् - evam - thus
ध्यायथ - dhyāyatha - meditate
वः - vaḥ - your
तमसः - tamasaḥ - the darkness
परस्तात् - parastāt - beyond
पाराय - pārāya - passage to the other shore
स्वस्ति - svasti - happy be

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know