तिस्रो रात्रीर्यदवात्सीर्गृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः। नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥
॥ लिप्यन्तरणम् ॥
tisro rātrīryadavātsīrgṛhe me'naśnanbrahmannatithirnamasyaḥ | namaste'stu brahmansvasti me'stu tasmātprati trīnvarānvṛṇīṣva ||
॥ अन्वयः ॥
ब्रह्मन् अतिथिः त्वं नमस्यः यत् मे गृहे तिस्रः रात्रीः अनश्नन् अवात्सीः तस्मात् प्रति त्रीन् वरान् वृणीष्व। ब्रह्मन् ते नमः अस्तु। मे स्वस्ति अस्तु ॥
॥ अन्वयलिप्यन्तरणम् ॥
brahman atithiḥ ( tvaṁ ) namasyaḥ yat me gṛhe tisraḥ rātrīḥ anaśnan avātsīḥ tasmāt prati trīn varān vṛṇīṣva | brahman te namaḥ astu | me svasti astu ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ यमेन नचिकेतसः वरत्रयप्रदानसंकल्पः ]
एवमुक्तो मृत्युः नचिकेतसमुपगम्य सप्रश्रयमुवाच -
तिस्रो रात्रीर्यदवात्सीगृहे मेऽनश्नन्ब्रह्मन्नतिथिर्नमस्यः ।
नमस्तेऽस्तु ब्रह्मन्स्वस्ति मेऽस्तु तस्मात्प्रति त्रीन्वरान्वृणीष्व ॥९॥
ब्रह्मन् ! नमस्तेऽस्तु त्वं नमस्यः प्रणिपातार्हः । अतिथिः सन्नपि मे गृहे तिस्त्रो रात्री : अभिव्याप्य, अनश्नन् यस्मात् अवात्सीः, तस्मात्सञ्जातागसे मे मह्यं स्वस्ति अस्तु, अनुगृहाणेति यावत् । त्रीन्वरान्प्रति वृणीष्व । अनिच्छताऽपि त्वया मत्तो वरत्रयवरणेनाहमनुग्राह्य इति भावः ॥९॥
॥ आङ्गल-अर्थः ॥
“Because for three nights thou hast dwelt in my house, O Brahmin, a guest worthy of reverence,-salutation to thee, O Brahmin, on me let there be the weal,-therefore three boons do thou choose; for each night a boon.”
॥ हिन्दी-अर्थः ॥
(यम कहते हैं) ''हे ब्राह्मण! तुम नमनयोग्य समादरणीय अतिथि हो, मैं तुम्हें प्रणाम करता हूं, ब्राह्मणवर्य ! मेरा कल्याण हो, तुमने मेरे घर में तीन रात बिना कृछ खाए वास किया, इसलिए तुम तीन वरों का, प्रतिरात्रि के लिए एक वर का, चयन करो ।'' १ यम, मृत्यु का अधिष्ठाता, इस सृष्टि मे 'विधान' का भी स्वामी है । अतः वह सत्य के 'ज्योतिर्मय प्रभु', सूर्य का भी पुत्र है, जिससे समस्त 'विधान' का जन्म होता है ।
॥ शब्दावली ॥
त्वम् - tvam - you
नमस्यः - namasyaḥ - worthy of reverence
अतिथिः - atithiḥ - a guest
ब्रह्मन् - brahman - O Brahmin!
यत् - yat - because
मे - me - on me
मे गृहे - me gṛhe - in my house
तिस्रः रात्रीः - tisraḥ rātrīḥ - for three nights
अनश्नन् - anaśnan - without taking any food
अवात्सीः - avātsīḥ - thou hast dwelt
तस्मात् - tasmāt - thou hast dwelt
प्रति - prati - for each (night a boon)
त्रीन् वरान् - trīn varān - three boons
वृणीष्व - vṛṇīṣva - do thou choose
ब्रह्मन् - brahman -
ते - te - to you
नमः - namaḥ - salutation
अस्तु - astu - let there be
मे - me - on me
स्वस्ति - svasti - the weal
अस्तु - astu - let there be

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know