Ad Code

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः



विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्‌ ॥

॥ लिप्यन्तरणम् ॥

vijñānasārathiryastu manaḥ pragrahavānnaraḥ | so'dhvanaḥ pāramāpnoti tadviṣṇoḥ paramaṁ padam ||

॥ अन्वयः ॥

यः तु विज्ञानसारथि प्रग्रहवान् नरः सः अध्वनः पारम् आप्नोति तद् विष्णोः परं पदम् ॥

॥ अन्वयलिप्यन्तरणम् ॥

yaḥ tu vijñānasārathi pragrahavān naraḥ saḥ adhvanaḥ pāram āpnoti tad viṣṇoḥ paraṁ padam ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ निगृहीतमनस्कस्य प्राप्यं स्थानं वैकुण्ठलोकः ]

तच्च पदं विष्णोरित्याह-

विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः ।

सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥९॥

यस्य सारथिः अनुकूलो बुद्धयाख्यः, मनः प्रग्रहश्च प्रगृहीतः सः तत् प्रसिद्धम् अध्वनः पारम् - यत्प्राप्य संसाराध्वानं नावर्तेत, संसाराध्वनः पारभूतं, तद् विष्णोः पदम् - अप्राकृतं स्थानविशेषमधिगच्छति ॥९॥

॥ आङ्गल-अर्थः ॥

That man who uses the mind for reins and the knowledge for the driver, reaches the end of his road, the highest seat of Vishnu.

॥ हिन्दी-अर्थः ॥

''जो मनुष्य मन को लगाम की तरह प्रयोग करता है तथा विज्ञान (गहन ज्ञान) को सारथी बनाता है, वह अपने मार्ग के अन्त को, विष्णु के परम-पद को प्राप्त करता है।

॥ शब्दावली ॥

यः तु - yaḥ tu - he who

प्रग्रहवान् - pragrahavān - the one who uses the mind for reins

विज्ञानसारथि - vijñānasārathi - the one who uses the knowledge for the driver

सः नरः - saḥ naraḥ - that man

अध्वनः - adhvanaḥ - of the road

पारम् - pāram - the end

आप्नोति - āpnoti - reaches

तद् - tad - that

विष्णोः - viṣṇoḥ - of Vishnu

परम् पदम् - param padam - the highest seat

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code