Ad Code

यस्तु विज्ञानवान्भवति समनस्कः



यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः। स तु तत्पदमाप्नोति यस्माद् भूयो न जायते ॥

॥ लिप्यन्तरणम् ॥

yastu vijñānavānbhavati samanaskaḥ sadā śuciḥ | sa tu tatpadamāpnoti yasmād bhūyo na jāyate ||

॥ अन्वयः ॥

यः तु विज्ञानवान् समनस्कः सदा शुचिः भवति सः तु तत् पदं आप्नोति। यस्मात् भुयः न जायते ॥

॥ अन्वयलिप्यन्तरणम् ॥

yaḥ tu vijñānavān samanaskaḥ sadā śuciḥ bhavati saḥ tu tat padaṁ āpnoti| yasmāt bhuyaḥ na jāyate ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

यस्त्वविज्ञानवान् भवत्यमनस्कस्सदाऽशुचिः ।

न स तत् पदमाप्नोति संसारं चाधिगच्छति ॥७॥ इत्यत्र व्याख्यातम् ।

॥ आङ्गल-अर्थः ॥

But he that has knowledge and is mindful and pure always, reaches that goal whence he is not born again.

॥ हिन्दी-अर्थः ॥

''परन्तु जो ज्ञानवान् होता है, सचेतनमना तथा सदा शुचिमान् होता है, वह उस (परम) पद को प्राप्त करता है जहाँ से वह पुनः जन्म नहीं लेता।

॥ शब्दावली ॥

यः तु - yaḥ tu - he who

विज्ञानवान् - vijñānavān - with knowledge

समनस्कः - samanaskaḥ - mindful

सदा शुचिः - sadā śuciḥ - pure always

भवति - bhavati - is

सः तु - saḥ tu - he indeed

तत् पदम् - tat padam - that goal

आप्नोति - āpnoti - reaches

यस्मात् - yasmāt - whence

भुयः - bhuyaḥ - again

न जायते - na jāyate - he is not born

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code