Ad Code

लोकादिमग्निं तमुवाच तस्मै या



लोकादिमग्निं तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा। स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥

॥ लिप्यन्तरणम् ॥

lokādimagniṁ tamuvāca tasmai yā iṣṭakā yāvatīrvā yathā vā | sa cāpi tatpratyavadadyathoktamathāsya mṛtyuḥ punarevāha tuṣṭaḥ ||

॥ अन्वयः ॥

यमः तस्मै लोकादिं तम् अग्निम् उवाच। याः यावतीः वा इष्टकाः यथा वा सः च अपि तत् यथोक्तं प्रत्यवदत्। अथ मृत्युः अस्य तुष्टः पुन एव आह ॥

॥ अन्वयलिप्यन्तरणम् ॥

( yamaḥ ) tasmai lokādiṁ tam agnim uvāca| yāḥ yāvatīḥ vā iṣṭakāḥ yathā vā saḥ ca api tat yathoktaṁ pratyavadat| atha mṛtyuḥ asya tuṣṭaḥ puna eva āha ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ यमस्य अग्निविद्योपदेशप्रकार: ]

लोकादिमग्नि तमुवाच तस्मै या इष्टका यावतीर्वा यथा वा ।

स चापि तत्प्रत्यवदद्यथोक्तमथास्य मृत्युः पुनरेवाह तुष्टः ॥१५॥

लोकादिम् - लोकस्यादिम् उक्तलोकविशेषस्य कारणम् । तमग्नि, तस्मै नचिकेतसे उवाच । इष्टकायाः - चेतव्या इष्टका यत्स्वरूपाः, यावती: - यावत्सङ्ख्याकाः, यथा - येन प्रकारेण च चेतव्याः, तत्सर्वम् आह इत्यर्थः । विशेषोऽत्र चयनप्रकरणादवगन्तव्यः । सोऽपि नचिकेताः सकृदवबोधितएव तत्सर्वं यथोपदिष्टं प्रत्यवदत् । अथास्य तुष्टस्तन्मतिकौशलम् अवलोक्य सन्तुष्टस्तस्मिन् मृत्युः पुनरेवाह ॥१५॥

॥ आङ्गल-अर्थः ॥

Of the Flame that is the world's beginning he told him and what are the bricks and how many and the way of their setting; and Nachiketas too repeated it even as it was told; then Death was pleased and said to him yet farther;

॥ हिन्दी-अर्थः ॥

उन्होंने (यम ने) उसे लोकों की आदिकारण३-स्वरूपा अग्नि के विषय में तथा उसके लिए इटँ क्या हैं, कितनी हैं एवं किस प्रकार व्यवस्थित की जाती हैं, सब बताया। नचिकेता ने भी जैसा-जैसा उसे बताया गया वैसा-वैसा प्रतिकथन कर दिया। मृत्युदेव यम सन्तुष्ट हो गए और उन्होंने उससे आगे कहा;

॥ शब्दावली ॥

यमः - yamaḥ - the death god

तस्मै - tasmai - to him

तम् लोकादिम् - tam lokādim - that which is the world's beginning

अग्निम् - agnim - the Flame

उवाच - uvāca - he spoke

याः - yāḥ - what are

यावतीः - yāvatīḥ - how many

वा - vā - and

इष्टकाः - iṣṭakāḥ - the bricks

यथा वा - yathā vā - and as those should be set

सः - saḥ - he

च - ca - and

अपि - api - too

तत् - tat - that

यथोक्तम् - yathoktam - even as it was told

प्रत्यवदत् - pratyavadat - repeated it

अथ - atha - then

मृत्युः - mṛtyuḥ - Death

अस्य - asya - with him

तुष्टः - tuṣṭaḥ - was pleased

पुनः - punaḥ - farther

एव - eva - indeed

आह - āha - said (to him)


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code