पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम्। अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥
॥ लिप्यन्तरणम् ॥
pañcapādaṁ pitaraṁ dvādaśākṛtiṁ diva āhuḥ pare ardhe purīṣiṇam | atheme anya u pare vicakṣaṇaṁ saptacakre ṣaḍara āhurarpitamiti ||
॥ अन्वयः ॥
पञ्चपादं द्वादशाकृतिं पितरं दिवः परे अर्धे पुरीषिणम् आहुः। अथ परे अन्ये इमे विचक्षणं सप्तचक्रे षडरे अर्पितम् इति आहुः ॥
॥ अन्वयलिप्यन्तरणम् ॥
pañcapādaṁ dvādaśākṛtiṁ pitaraṁ divaḥ pare ardhe purīṣiṇam āhuḥ| atha pare anye ime vicakṣaṇaṁ saptacakre ṣaḍare arpitam ( iti ) āhuḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परमात्मनः संवत्सरूपत्वम् ]
पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥११॥
पञ्चपादं पितरमिति । मेषादिराशिषु प्रविशन्नादित्यो मासभेदापादनद्वारा संवत्सरव्यवहारे ऋतुव्यवहारे च हेतुर्भवति । तदिदमभिप्रेत्य रूप्यते - पञ्चपादमिति । पञ्च ऋतवः पादा यस्य। हेमन्तशिशिरावेकीकृत्येत्थमुक्तिः । द्वादशाकृतिम् - मेषादिद्वादशमासाकृतिकम्, पितरम् प्राणिमात्रोत्पादनहेतुत्वात् । दिवः परे अर्धे अन्तरिक्षस्योपरितनभागे विद्यमानम् । पुरीषिणम् - पुरीषमिति जलमुच्यते, वृष्ट्या धायकतया पुरीषिणमित्युक्तिः । आहुः - अन्ये पुनरुत्कृष्टा एवमाहुः । सप्तचक्रे चक्राणि रथगतिसाधनानि, प्रकृते अश्वा विवक्षिताः सप्ताश्वेऽस्मिन्नादित्ये । षडरे - षऋतुभेदनिर्वाहके । प्राणिजातम्, विचक्षणम् - यथा तथा, सम्यगिति यावत् । अर्पितमाहुः। सूर्येणैवास्य प्राणिजातस्य सत्तेति भावः ॥११॥
॥ आङ्गल-अर्थः ॥
“'Five-portioned, some say, is the Father and hath twelve figures and he floweth in the upper hemisphere beyond the heavens; but others speak of him as the Wisdom who standeth in a chariot of six spokes and seven wheels.'
॥ हिन्दी-अर्थः ॥
'''कुछ लोग इसे पञ्चपाद अर्थात् पाँच अगोंवाला 'पिता' कहते हैं, तथा उसकी बारह आकृतियां हैं एवं वह द्यु-लोकों के परे, परार्ध में प्रवाहित होता है; किन्तु अन्य उसे 'विचक्षण' (विद्वान्) कहते हैं जो छः अरों एवं सात चक्रों वाले रथ में विराजमान है।'
॥ शब्दावली ॥
पञ्चपादम् - pañcapādam - five-portioned
द्वादशाकृतिम् - dvādaśākṛtim - that has twelve figures
पितरम् - pitaram - the Father
दिवः परे अर्धे - divaḥ pare ardhe - in the upper hemisphere beyond the heavens
पुरीषिणम् - purīṣiṇam - that which inhabits
आहुः - āhuḥ - some say
अथ - atha - but
परे अन्ये इमे - pare anye ime - others
विचक्षणम् - vicakṣaṇam - as the Wisdom
सप्तचक्रे षडरे - saptacakre ṣaḍare - in a chariot of six spokes and seven wheels
अर्पितम् - arpitam - who standeth
आहुः - āhuḥ - speak

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know