Ad Code

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि



श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः। आश्चर्यो वक्ता कुशलोऽस्य लब्धाश्चर्यो ज्ञाता कुशलानुशिष्टः ॥

॥ लिप्यन्तरणम् ॥

śravaṇāyāpi bahubhiryo na labhyaḥ śṛṇvanto'pi bahavo yaṁ na vidyuḥ | āścaryo vaktā kuśalo'sya labdhāāścaryo jñātā kuśalānuśiṣṭaḥ ||

॥ अन्वयः ॥

यः बहुभिः श्रवणाय अपि न लम्यः बहवः शृण्वन्तः अपि यम् न विद्युः अस्य वक्ता आश्चर्यः अस्य लब्धा कुशलः कुशलानुशिष्टः ज्ञाता आश्चर्यः ॥

॥ अन्वयलिप्यन्तरणम् ॥

yaḥ bahubhiḥ śravaṇāya api na lamyaḥ bahavaḥ śṛṇvantaḥ api yam na vidyuḥ ( asya ) vaktā āścaryaḥ asya labdhā kuśalaḥ kuśalānuśiṣṭaḥ jñātā āścaryaḥ ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ सम्यक् वक्ता श्रोता दुर्लभः ]

श्रेयसि यतमानानां सर्वेषामेव तत्परमात्मस्वरूपं न सुलभमित्याह - श्रवणायापि इति । 

श्रवणायापि बहुभिर्यो न लभ्यः शृण्वन्तोऽपि बहवो यं न विद्युः ।

आश्चर्यो वक्ता कुशलोऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥७॥

यः - परमात्मा, श्रवणायापि श्रोतुमपि, बहुभिः न लभ्यः - बहूनां तच्छ्रवणमपि दुर्लभम् । शृण्वन्तो बहवः यं न विद्युः - याथातथ्येन तत्स्वरूपं न जानीयुः । एवम्भूतस्यास्य कुशलो वक्ता आश्चर्य: - मरुभूमिषु जलाशयवत् कश्चिदेव तादृश इति यावत् । कुशलेन गुरुणाऽनुशिष्टो ज्ञाताऽपि आश्चर्यः । तथा कुशलो लब्धाऽपि आश्चर्यः । गुरुमुखतोऽधिगतात्मयाथार्थ्यः पश्चादुपायाद्यनुष्ठानेनाऽस्य लब्धा तु कश्चिदेवेत्यर्थः । उत्तरोत्तरं विरलत्वमभिप्रेतम् ॥७॥

॥ आङ्गल-अर्थः ॥

He that is not easy even to be heard of by many, and even of those that have heard they are many who have not known Him,-a miracle is the man that can speak of Him wisely or is skilful to win Him, and when one is found, a miracle is the listener who can know God even when taught of Him by the knower.

॥ हिन्दी-अर्थः ॥

'''वह' (परतत्त्व) जिसका श्रवण भी बहुतों के लिए सुलभ नहीं है श्रवण करने वालों में से भी बहुत से लोग 'जिसे' जान नहीं पाते। 'उसका' ज्ञानपूर्वक कथन करने वाला व्यक्ति अथवा कुशलता से 'उसे' उपलब्ध करने वाला व्यक्ति होना एक आश्चर्यभरा चमत्कार है, तथा जब ऐसा कोई मिल जाये तो ऐसा श्रोता होना भी आश्चर्यपूर्ण है जो ज्ञानीजन से 'उसके' विषय में उपदेश ग्रहण करके भी 'ईश्वर' को जान सके।

॥ शब्दावली ॥

यः - yaḥ - he that

बहुभिः - bahubhiḥ - by many

श्रवणाय - śravaṇāya - for hearing

अपि - api - even

न लम्यः - na lamyaḥ - not easy to be found or known

बहवः - bahavaḥ - many

शृण्वन्तः - śṛṇvantaḥ - who have heard

अपि - api - even

यम् - yam - to whom

न विद्युः - na vidyuḥ - do not know

अस्य - asya - of this

वक्ता - vaktā - speaker

आश्चर्यः - āścaryaḥ - miracle

आश्चर्यः - āścaryaḥ - miracle

कुशलः लब्धा - kuśalaḥ labdhā - the one skillful to find Him

आश्चर्यः - āścaryaḥ - miracle

कुशलानुशिष्टः - kuśalānuśiṣṭaḥ - taught the skilful knower

ज्ञाता - jñātā - knower


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code