अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः। यत् कर्मिणो न प्रवेदयन्ति रागात् तेनातुराः क्षीणलोकाश्च्यवन्ते ॥
॥ लिप्यन्तरणम् ॥
avidyāyāṁ bahudhā vartamānā vayaṁ kṛtārthā ityabhimanyanti bālāḥ | yat karmiṇo na pravedayanti rāgāt tenāturāḥ kṣīṇalokāścyavante ||
॥ अन्वयः ॥
अविद्यायां बहुधा वर्तमानाः बालाः वयं कृतार्थाः इति अभिमन्यन्ति। यत् कर्मिणः रागात् न प्रवेदयन्ति तेन क्षीणलोकाः आतुराः च्यवन्ते ॥
॥ अन्वयलिप्यन्तरणम् ॥
avidyāyāṁ bahudhā vartamānāḥ bālāḥ vayaṁ kṛtārthāḥ iti abhimanyanti| yat karmiṇaḥ rāgāt na pravedayanti tena kṣīṇalokāḥ āturāḥ cyavante ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
अविद्यायां बहुधा वर्तमाना वयं कृतार्था इत्यभिमन्यन्ति बालाः ।
यत्कर्मिणो न प्रवेदयन्ति रागात्तेनातुराः क्षीणलोकाश्च्यवन्ते ॥९॥
अविद्यायां बहुधा वर्तमानाः - कर्तृत्वभोक्तृत्वाद्यनेकैः प्रकारैरविद्यायामेव निवसन्तः, अविद्याऽऽवृता इति यावत् । बालाः - अत्यल्पफलसाधनानुष्ठानमात्रेण वयमेव चरितार्था इत्यभिमन्यन्ते । किञ्च - यत्कर्मिणो न प्रवेदयन्ति रागात् । ते हि कर्मशीलाः स्वर्गाद्यल्पफलेषु रागावेशान्न कर्मणां न वा कर्माराध्यस्य नापि कर्मकर्तुः स्वस्य यथावस्थितं स्वरूपं प्रकर्षेण जानन्ति । तेन हेतुना क्षीणलोका अत एवातुराश्च्यवन्ते ॥९॥
॥ आङ्गल-अर्थः ॥
They dwell in many bonds of the Ignorance, children thinking, “We have achieved our aim of Paradise”; for when the men of works are held by their affections, and arrive not at the Knowledge, then they are overtaken by anguish, then their Paradise wastes by enjoying and they fall from their heavens.
॥ हिन्दी-अर्थः ॥
ये 'अविद्या' के बहुविध बन्धनों में रहते हैं तथा बालकों के समान गर्ववशात् सोचते हैं, "हमने अपने 'स्वर्ग' के लक्ष्य को प्राप्त कर लिया''; क्योंकि जब कर्मनिष्ठ व्यक्ति अपनी आसक्ति (राग) के कारण 'ज्ञान' लाभ नहीं कर पाते तब वे दुःख तथा आतुरता के वश में हो जाते हैं, तब उनका 'स्वर्ग', भोग के कारण क्षीण हो जाता है तथा वे स्वयं अपने स्वर्ग से पतित हो जाते हैं।
॥ शब्दावली ॥
अविद्यायाम् - avidyāyām - of the Ignorance
बहुधा - bahudhā - many bonds
वर्तमानाः - vartamānāḥ - dwelling in
बालाः - bālāḥ - children
वयम् कृतार्थाः इति - vayam kṛtārthāḥ iti - “We have achieved our aim of Paradise”
अभिमन्यन्ति - abhimanyanti - they think
यत् - yat - for when
कर्मिणः - karmiṇaḥ - the men of works
रागात् - rāgāt - held by their affections
न प्रवेदयन्ति - na pravedayanti - arrive not at the Knowledge
तेन - tena - then / because of that
क्षीणलोकाः - kṣīṇalokāḥ - when the Paradise wastes by enjoying
आतुराः - āturāḥ - overtaken by anguish
च्यवन्ते - cyavante - they fall (from their heavens)

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know