ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविध्यायाः परं पारं तारयसीति। नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥
॥ लिप्यन्तरणम् ॥
te tamarcayantastvaṁ hi naḥ pitā yo'smākamavidhyāyāḥ paraṁ pāraṁ tārayasīti | namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ ||
॥ अन्वयः ॥
ते तम् अर्चयन्तः उवाच त्वं हि नः पिता यः अस्माकम् अविद्ययाः परं पारं तारयसि इति नमः परमऋषिभ्यः नमः परमऋषिभ्यः ॥
॥ अन्वयलिप्यन्तरणम् ॥
te tam arcayantaḥ ( uvāca ) tvaṁ hi naḥ pitā yaḥ asmākam avidyayāḥ paraṁ pāraṁ tārayasi iti namaḥ paramaṛṣibhyaḥ namaḥ paramaṛṣibhyaḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति ।
नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥८॥
ते भारद्वाजादयः शिष्यास्तं गुरुं पिप्पलादमर्चयन्तः - प्रणिपातादिभिः पूजयन्त: अवोचन् । किमिति ? त्वं हि नः पिता - यस्तु बीजप्रदः स केवलं जरामरणादिभूयिष्ठं शरीरमात्रं प्रयच्छति, ततोऽपि त्वं जरामरणादिभयविवर्जितविज्ञानजन्मप्रदस्ततोऽपि महत्तरः पिता पूज्यतमो नः, योऽस्माकमविद्यायाः परं पारं तारयसीति । शान्त्यर्थं पठ्यते - नमः परमऋषिभ्य इति । आदराद् द्विरुक्तिः ॥८॥
॥ इति प्रश्नोपनिषद्भाष्ये षष्ठः प्रश्नः ॥
॥ इति श्रीमद्भगवत्स्वामिनारायणचरणकमलपरिचर्य्यापरायणसकलतन्त्रपारावारपारीणपरमहंसवर्य्ययोगिराज श्रीगोपालानन्दस्वामिविरचितं प्रश्नोपनिषदः स्वामिनारायणमूलभाष्यं समाप्तम् ॥
॥ आङ्गल-अर्थः ॥
And they worshipping him: “For thou art our father who hast carried us over to the other side of the Ignorance.” Salutation to the mighty sages, salutation!
॥ हिन्दी-अर्थः ॥
एवं वे उनकी अर्चना करते हुए बोलेː ''आप ही हमारे पिता हैं जिन्होंने हमें 'अविद्या' के उस पार पहुँचा दिया है।'' परम ऋषिगणों को नमन! (परम ऋषिगणों को) पुनः पुनः नमन!!
॥ शब्दावली ॥
ते तम् अर्चयन्तः - te tam arcayantaḥ - they worshipping him
त्वम् हि नः पिता - tvam hi naḥ pitā - thou art our father
यः अस्माकम् - yaḥ asmākam - who to us
अविद्ययाः - avidyayāḥ - of the Ignorance
परम् पारम् - param pāram - to the other side
तारयसि इति - tārayasi iti - hast carried over
नमः परमऋषिभ्यः - namaḥ paramaṛṣibhyaḥ - salutation to the mighty sages!
नमः परमऋषिभ्यः - namaḥ paramaṛṣibhyaḥ - salutation to the mighty sages!
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know