यथा पुरस्ताद् भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः। सुखं रात्रीः शयिता वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम् ॥
॥ लिप्यन्तरणम् ॥
yathā purastād bhavitā pratīta auddālakirāruṇirmatprasṛṣṭaḥ | sukhaṁ rātrīḥ śayitā vītamanyustvāṁ dadṛśivānmṛtyumukhātpramuktam ||
॥ अन्वयः ॥
आरुणिः औद्दालकिः पुरस्तात् त्वयि यथा मत्प्रसृष्टः तथैव प्रतीतः भविता। सः त्वां मृत्युमुखात् प्रमुक्तं ददृशिवान् वीतमन्युः रात्रीः सुखं शयिता ॥
॥ अन्वयलिप्यन्तरणम् ॥
āruṇiḥ auddālakiḥ purastāt ( tvayi ) yathā matprasṛṣṭaḥ ( tathaīva ) pratītaḥ bhavitā | ( saḥ ) tvāṁ mṛtyumukhāt pramuktaṁ dadṛśivān vītamanyuḥ rātrīḥ sukhaṁ śayitā ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
मृत्यु: प्रतिवक्ति -
[ प्रथमवरप्रदानम् ]
यथा पुरस्ताद्भविता प्रतीत औद्दालकिरारुणिर्मत्प्रसृष्टः ।
सुखं रात्रीः शयिता वीतमन्युः त्वां ददृशिवान्मृत्युमुखात् प्रमुक्तम् ॥११॥
औद्दालकिः - उद्दालकस्यापत्यम्, आरुणिः - अरुणस्य गोत्रापत्यम्, नाम्ना गौतमः, तव पिता मत्प्रसृष्टस्सन् - मयाऽनुगृहीतः सन्, मदनुग्रहेणेत्येतत्, यथा पुरस्ताद्भविता पूर्ववत्प्रहृष्टो भविष्यति । प्रतीतश्च भविता - त्वयि प्रत्यभिज्ञानवांश्च भविष्यति । मृत्युमुखात्प्रमुक्तं त्वां ददृशिवान् सन् दृष्टवान्सन्, दृष्ट्वेति यावत्, वीतमन्युः अपगतकोप:, रात्रीः सुखं शयिता - निश्चिन्तः सुखेन स्वप्स्यति चेति भावः ॥११॥
॥ आङ्गल-अर्थः ॥
“Even as before assured in heart and by me released shall he be, Auddalaki Aruni, thy father; sweetly shall he sleep through the nights and his passion shall pass away from him, having seen thee from death's jaws delivered.”
॥ हिन्दी-अर्थः ॥
(यम कहते हैं) ''तुम्हारे पिता, औद्दालकि आरुणि, पूर्ववत् आश्वस्त-हृदय होंगे तथा मेरे द्वारा विमुक्त होंगे । तुम्हें मृत्यु के मुख से मुक्त हुआ देखकर उनका क्षोभ शान्त हो जायेगा और वे रातो को सुखपूर्वक सोयेंगे ।''
॥ शब्दावली ॥
औद्दालकिः आरुणिः - auddālakiḥ āruṇiḥ - Aruni, the son of Uddalaka
यथा - yathā - even as
पुरस्तात् - purastāt - before
मत्प्रसृष्टः - matprasṛṣṭaḥ - released by me
प्रतीतः - pratītaḥ - assured in heart
भविता - bhavitā - shall he be
त्वाम् - tvām - to thee
मृत्युमुखात् - mṛtyumukhāt - from death's jaws
प्रमुक्तम् - pramuktam - delivered
ददृशिवान् - dadṛśivān - having seen
वीतमन्युः - vītamanyuḥ - all passion being passed away (from him)
रात्रीः - rātrīḥ - nights
सुखम् - sukham - sweetly
शयिता - śayitā - shall he sleep

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know