स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति। उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥
॥ लिप्यन्तरणम् ॥
svarge loke na bhayaṁ kiñcanāsti na tatra tvaṁ na jarayā bibheti | ubhe tīrtvā'śanāyāpipāse śokātigo modate svargaloke ||
॥ अन्वयः ॥
स्वर्गे लोके किञ्चन भयं न अस्ति। तत्र त्वं न असि न जरया बिभेति। उभे अशनायापिपासे तीर्त्वा शोकातिगः स्वर्गेलोके मोदते ॥
॥ अन्वयलिप्यन्तरणम् ॥
svarge loke kiñcana bhayaṁ na asti | tatra tvaṁ ( na asi ) na jarayā bibheti | ubhe aśanāyāpipāse tīrtvā śokātigaḥ svargeloke modate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ नचिकेतसा द्वितीयवरप्रार्थनापूर्वं स्वर्गस्वरूपप्रशंसा ]
स्वर्गसाधनभूतामग्निविद्यां द्वितीयेन वरेण वृण्वानः स्वर्गस्वरूपं तावदाह स्वर्गे लोके इति -
स्वर्गे लोके न भयं किञ्चनास्ति न तत्र त्वं न जरया बिभेति ।
उभे तीर्त्वाऽशनायापिपासे शोकातिगो मोदते स्वर्गलोके ॥१२॥
स्वर्गशब्दोऽयं मोक्षस्थानभूताऽप्राकृतलोकपरः, एतल्लोकं गतानां मुक्तासाधारणस्य अपहतपाप्मत्वादिगुणाष्टकस्य न भयं किञ्चनास्ती' त्यादिना प्रतिपादनात् । तत्र हि 'न भयं किञ्चनास्ती'त्यपहतपाप्मत्वं, 'न तत्र त्व' मिति विमृत्युत्वं, 'न जरये 'ति विजरत्वम्, 'उभे तीर्त्वाऽशनायापिपासे' इति विजिघत्सत्वमपिपासत्वं च प्रतिपाद्यते ।
श्रूयते चान्यत्रापि स्वर्गशब्दोऽप्राकृतलोकविशेषे 'तस्यां हिरण्मयः कोश: स्वर्गों लोको ज्योतिषाऽऽवृतः', 'तेन धीरा अपियन्ति ब्रह्मविदः स्वर्गं लोकमित ऊर्ध्वं विमुक्ताः' 'अनन्ते स्वर्गे लोके ज्येये प्रतितिष्ठति' इति । स्वर्गशब्दस्य निरतिशयप्रीतिविशेषवाचित्वात् मोक्ष एव मुख्यार्थोपपत्तेः, अन्यत्र सातिशयप्रीतिमात्रादौपचारिकत्वात् । स्वर्गकामाधिकरणे च निरतिशयप्रीतिवाचिता समर्थिता । विस्तरस्तु अन्यतोऽवगन्तव्य: । 'न भयं किञ्चनास्ती' त्यादि तु व्याख्यातम् ॥१२॥
॥ आङ्गल-अर्थः ॥
“In heaven fear is not at all, in heaven, O Death, thou art not, nor old age and its terrors; crossing over hunger and thirst as over two rivers, leaving sorrow behind, the soul in heaven rejoices.
॥ हिन्दी-अर्थः ॥
(नचिकेता कहता है) ''स्वर्गलोक मे किञ्चित्-मात्र भय नहीं है, हे मृत्चुदेव ! आप भी वहाँ नहीं हैं और न जरावस्था है न उसका भय है; भूख और प्यास दोनों को नदियों के समान पार कर, शोक का अतिक्रमण करके आत्मा स्वर्गलोक में आनन्दित रहती है ।
॥ शब्दावली ॥
स्वर्गे लोके - svarge loke - in heaven
किञ्चन - kiñcana - any
भयम् - bhayam - fear
न अस्ति - na asti - is not
तत्र - tatra - there
न त्वम् - na tvam - thou art not
न जरया बिभेति - na jarayā bibheti - nor old age and its terrors
उभे - ubhe - both
अशनायापिपासे - aśanāyāpipāse - hunger and thirst
तीर्त्वा - tīrtvā - crossing over (as over two rivers)
शोकातिगः - śokātigaḥ - leaving sorrow behind
स्वर्गे लोके - svarge loke - in heaven
मोदते - modate - (the soul) rejoices

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know