Ad Code

शान्तसंकल्पः सुमना यथा



शान्तसंकल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माभि मृत्यो। त्वत्प्रसृष्टं माभिवदेत्प्रतीत एतत्त्रयाणां प्रथमं वरं वृणे ॥

॥ लिप्यन्तरणम् ॥

śāntasaṁkalpaḥ sumanā yathā syādvītamanyurgautamo mābhi mṛtyo | tvatprasṛṣṭaṁ mābhivadetpratīta etattrayāṇāṁ prathamaṁ varaṁ vṛṇe ||

॥ अन्वयः ॥

मृत्यो गौतमः शान्तसङ्कल्पः सुमनाः मा अभि वीतमन्युः यथा स्यात् प्रतीतः त्वत्प्रसृष्टं अभिवदेत् एतत् त्रयाणां प्रथमं वरं वृणे ॥

॥ अन्वयलिप्यन्तरणम् ॥

mṛtyo gautamaḥ śāntasaṅkalpaḥ sumanāḥ mā abhi vītamanyuḥ yathā syāt pratītaḥ tvatprasṛṣṭaṁ abhivadet etat trayāṇāṁ prathamaṁ varaṁ vṛṇe ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ प्रथमवरेण पितुः शान्तमनस्कत्वप्रार्थना ]

एवं मृत्युना सविनयं प्रार्थितो नचिकेता आह -

शान्तसङ्कल्पः सुमना यथा स्याद्वीतमन्युर्गौतमो माऽभि मृत्यो ।

त्वत्प्रसृष्टं माऽभिवदेत्प्रतीत एतत् त्रयाणां प्रथमं वरं वृणे ॥१०॥

मृत्यो ! गौतमो मम पिता शान्तसङ्गल्प:- मम पुत्रो मृत्युमुपगतः कां दशामनुभवतीति चिन्तारहितः, अत एव सुमनाः - प्रसन्नचेता: माऽभि - मां प्रति वीतमन्युः - गतरोषश्च यथा स्यात्, यथा च प्रसन्नेन त्वया गृहमुपगतं माऽभि - मां प्रति स एवायं मम पुत्र इति विश्वस्तः सन् वदेत् - प्रीतिपूर्वमालापं कुर्यात्, एतत् त्रयाणां मध्ये प्रथमं वरं वृणे ॥१०॥

॥ आङ्गल-अर्थः ॥

“Tranquillised in his thought and serene of mind be the Gautama, my father, let his passion over me pass away from him; assured in heart let him greet me from thy grasp delivered; this boon I choose, the first of three.”

॥ हिन्दी-अर्थः ॥

(नचिकेता कहता है) ''हे यमराज ! मेरे पिता गौतम शान्तचित्त तथा प्रसन्नमना हो जायें और उनका मेरे प्रति जो क्षोभ है, वह न रहे; आपके द्वारा छोडे जाने पर वे आश्वस्त हृदय से मेरा अभिवादन करे-तीन वरों में से मैं यह प्रथम वर चुनता हूँ ।''

॥ शब्दावली ॥

मृत्यो - mṛtyo - O Death God!

गौतमः - gautamaḥ - (my father) Gautama

शान्तसङ्कल्पः - śāntasaṅkalpaḥ - Tranquillised in his thought

सुमनाः - sumanāḥ - serene of mind

मा अभि - mā abhi - over me

वीतमन्युः - vītamanyuḥ - having all (his) passions passed away

यथा स्यात् - yathā syāt - as it must be

प्रतीतः - pratītaḥ - assured in heart

त्वत्प्रसृष्टम् - tvatprasṛṣṭam - delivered from thy grasp

अभिवदेत् - abhivadet - let him greet (me)

एतत् - etat - this

त्रयाणाम् - trayāṇām - of three

प्रथमम् - prathamam - the first

वरम् - varam - boon

वृणे - vṛṇe - I choose


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code