य एवं विद्वान् प्राणं वेद। न हास्य प्रजा हीयतेऽमृतो भवति तदेषः श्लोकः ॥
॥ लिप्यन्तरणम् ॥
ya evaṁ vidvān prāṇaṁ veda| na hāsya prajā hīyate'mṛto bhavati tadeṣaḥ ślokaḥ ||
॥ अन्वयः ॥
यः विद्वान् एवं प्राणं वेद अस्य प्रजाः न ह हीयते सः अमृतः भवति तत् एषः श्लोकः ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ vidvān evaṁ prāṇaṁ veda asya prajāḥ na ha hīyate ( saḥ ) amṛtaḥ bhavati tat eṣaḥ ślokaḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
य एवं विद्वान्प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति तदेष श्लोकः ॥११॥
यो विद्वानेवं प्राणं वेद उक्तविशेषविशिष्टं वेद । नास्य प्रजा हीयते । इदं चानुषङ्गिकम् मुख्यं च फलममृतत्वम् । तदुच्यते अमृतो भवतीति । अमृतत्वं चेह मोक्षः । यद्यपि प्राणविज्ञानस्य न साक्षान्मोक्षहेतुता, तथापि प्राणोत्पत्तिविचारे परमात्मनः सर्वजगत्कारणस्यावगम्यमानतया परमात्मविज्ञानद्वारा मोक्षहेतुताऽप्यस्तीति बोध्यम् । अमृतत्वं चिरकालजीवित्वमात्रपरं वा ॥११॥
॥ आङ्गल-अर्थः ॥
“The wise man that knoweth thus of the breath, his progeny wasteth not and he becometh immortal. Whereof this is the Scripture.
॥ हिन्दी-अर्थः ॥
''जो विद्वान् 'प्राण' के सम्बन्ध में इस प्रकार जानता है, उसका वंश क्षीण (व्यर्थ) नहीं होता, वह अमर हो जाता है। जिसके लिए यह श्लोक (श्रुतिवचन) है।
॥ शब्दावली ॥
यः विद्वान् - yaḥ vidvān - the wise man that
एवम् - evam - thus
प्राणम् - prāṇam - of the breath
वेद - veda - knoweth
अस्य प्रजाः - asya prajāḥ - his progeny
न ह हीयते - na ha hīyate - wasteth not
अमृतः भवति - amṛtaḥ bhavati - he becometh immortal
तत् एषः श्लोकः - tat eṣaḥ ślokaḥ - whereof this is the Scripture

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know