उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा। अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥
॥ लिप्यन्तरणम् ॥
utpattimāyatiṁ sthānaṁ vibhutvaṁ caiva pañcadhā | adhyātmaṁ caiva prāṇasya vijñāyāmṛtamaśnute vijñāyāmṛtamaśnuta iti ||
॥ अन्वयः ॥
प्राज्ञः प्राणस्य उत्पत्तिम् आयतिं स्थानं बिभुत्वं च एव पञ्चधा च एव अध्यात्मं विज्ञाय अमृतम् अश्नुते इति ॥
॥ अन्वयलिप्यन्तरणम् ॥
( prājñaḥ ) prāṇasya utpattim āyatiṁ sthānaṁ bibhutvaṁ ca eva pañcadhā ca eva adhyātmaṁ vijñāya amṛtam aśnute iti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
उत्पत्तिमायतिं स्थानं विभुत्वं चैव पञ्चधा ।
अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुते ॥१२॥
उत्पत्तिम् - परमात्मन: सकाशात्, आयतिं च कर्मणा, स्थितिं च पाय्वादिषु, स्वामित्वं चेतरप्राणापेक्षया, शरीरान्तः प्राणापानादिभेदेन बहिश्चादित्यादिरूपेण सान्निध्यं च विज्ञायामृतमश्नुते ॥१२॥
॥ इति प्रश्नोपनिषद्भाष्ये तृतीयः प्रश्नः ॥
॥ आङ्गBy know of the Breath, his coming and his staying and his lordship in the five provinces, likewise his relation to the Spirit, one shall taste immortality.' ”
॥ हिन्दी-अर्थः ॥
'''प्राण' की उत्पत्ति, उसका आगमन, उसकी स्थिति, पञ्चविध क्षेत्रों में उसका विभुत्व (प्रभुत्व) इसी प्रकार 'आत्मा' से उसका सम्बन्ध, सब जानकर मनुष्य अमृतत्व का पान करता है।'''
॥ शब्दावली ॥
प्राणस्य - prāṇasya - of the Breath
उत्पत्तिम् - utpattim - the origin
आयतिम् - āyatim - his coming
स्थानम् - sthānam - his staying
पञ्चधा च एव बिभुत्वम् - pañcadhā ca eva bibhutvam - his lordship in the five provinces
अध्यात्मम् - adhyātmam - his relation to the Spirit
विज्ञाय - vijñāya - by knowing
अमृतम् अश्नुते इति - amṛtam aśnute iti - one shall taste immortality

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know