यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः। सहात्मना यथासङ्कल्पितं लोकं नयति ॥
॥ लिप्यन्तरणम् ॥
yaccittastenaiṣa prāṇamāyāti prāṇastejasā yuktaḥ| sahātmanā yathāsaṅkalpitaṁ lokaṁ nayati ||
॥ अन्वयः ॥
एषः मरणकाले यच्चितः भवति तेन प्राणम् आयाति। प्राणः तेजसा युक्तः सन् आत्मना सह यथा संकल्पितं लोकम् नयति ॥
॥ अन्वयलिप्यन्तरणम् ॥
eṣaḥ ( maraṇakāle ) yaccitaḥ ( bhavati ) tena prāṇam āyāti| prāṇaḥ tejasā yuktaḥ ( san ) ātmanā saha yathā saṁkalpitaṁ lokam nayati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
कथमयं जीवः शरीराच्छरीरान्तरमायाति स प्रकारः प्रसङ्गादुच्यते - यच्चित्त इति ।
यच्चित्तस्तेनैष प्राणमायाति प्राणस्तेजसा युक्तः सहात्मना यथासङ्कल्पितं लोकं नयति ॥१०॥
यच्चित्तः - मुमूर्षोरस्य चित्तं यस्मिन् तेन - सङ्कल्पविषयीभूतेन तेनोपलक्षितः सन्नित्यर्थः । एष जीवः प्राणमायाति - मुख्यप्राणेन संश्लेषविशेषं प्राप्नोतीत्यर्थः । अस्तसर्वेन्द्रियवृत्तिर्वासनामात्रावशेषेण मनसोपलक्षित उच्छ्वासनिश्वासरूपवृत्तिमात्रविशिष्टे मुख्यप्राणे संयुक्तो भवतीति यावत् । मुख्यप्राणस्तेजसा संयुक्तः, तेजसा भूतान्तरसंसृष्टेन तेजसा, इदं च भूतसूक्ष्मम्, तेजस: प्राधान्यात्तेजसेति निर्देश: । यथासङ्कल्पितं लोकं नयति । मुमूर्षोरस्य सङ्कल्पो यस्मिन्नासीत् तं लोकं नयति । कं नयति ? य एष प्राणमात तमेनमित्यर्थसिद्धम् । केन सह ? आत्मना सह मनसा सहेत्यर्थः ॥१०॥
॥ आङ्गल-अर्थः ॥
“Whatsoever be the mind of a man, with that mind he seeketh refuge with the breath when he dieth, and the breath and the upper breath lead him with the Spirit within him to the world of his imaginings.
॥ हिन्दी-अर्थः ॥
''मनुष्य जब देहत्याग करता है उस समय उसका चित्त (मन) जैसा होता है, उसी चित्त से वह प्राण में आश्रय लेता है, और प्राण तथा उदान (तेन) संयुक्त होकर 'आत्मा' के साथ उसे उसके संकल्पित लोक में ले जाते हैं।
॥ शब्दावली ॥
एषः यच्चितः - eṣaḥ yaccitaḥ - whatsoever be the mind of a man
तेन - tena - with that mind
प्राणम् आयाति - prāṇam āyāti - he seeketh refuge with the breath (when he dieth)
प्राणः तेजसा युक्तः - prāṇaḥ tejasā yuktaḥ - the breath and the upper breath
आत्मना सह - ātmanā saha - with the Spirit within him
यथा संकल्पितम् लोकम् - yathā saṁkalpitam lokam - to the world of his imaginings
नयति - nayati - lead him

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know