Ad Code

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म



हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम्‌। यथा च मरणं प्राप्य आत्मा भवति गौतम ॥

॥ लिप्यन्तरणम् ॥

hanta ta idaṁ pravakṣyāmi guhyaṁ brahma sanātanam | yathā ca maraṇaṁ prāpya ātmā bhavati gautama ||

॥ अन्वयः ॥

गौतम हन्त ते इदं गुह्यं सनातनं ब्रह्म प्रवक्षामि। मरणं प्राप्य आत्मा यथा भवति तदपि च प्रवक्षामि ॥

॥ अन्वयलिप्यन्तरणम् ॥

gautama hanta te idaṁ guhyaṁ sanātanaṁ brahma pravakṣāmi| maraṇaṁ prāpya ātmā yathā bhavati ( tadapi ) ca ( pravakṣāmi ) ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ परमरहस्यकथनप्रतिज्ञा ]

अधिकारिविशेषलाभेन सन्तुष्टो मृत्युः परमगुह्यं पुनर्विवेचयन्प्रतिजानीते हन्त इति । 

हन्त त इदं प्रवक्ष्यामि गुह्यं ब्रह्म सनातनम् ।

यथा च मरणं प्राप्य आत्मा भवति गौतम ॥६॥

हन्तेति अधिकारिविशेषलाभजनितो हर्षो व्यज्यते । ते त्वमसि पात्रमुत्तममुपदेशस्याऽस्य, न त्वा कामा बहवो लोलुपयन्ति, तदीदृशाय तुभ्यम्, इदम् - एतावतोपदिष्टम्, गुह्यम् - रहस्यं सनातनं ब्रह्म, प्रवक्ष्यामि - प्रकर्षेण पुनर्वक्ष्यामि । यद्विज्ञानाच्छाश्वतं सुखम् । अविज्ञाते च यस्मिन्नयमात्मा मरणं प्राप्य यथा भवति, तं प्रकारमप्रतिविधेयानन्त-दुःखास्पदतारूपं शृणु । इदञ्च ब्रह्मविज्ञाने आदरदाढर्याय निबोध्यते ॥६॥

॥ आङ्गल-अर्थः ॥

Surely, O Gautama, I will tell thee of this secret and eternal Brahman and likewise what becometh of the soul when one dieth.

॥ हिन्दी-अर्थः ॥

''हे गौतम! गुह्य एवं सनातन 'ब्रह्म' के विषय में, तथा मृत्यु-प्राप्ति पर आत्मा का क्या होता है, अवश्य ही मैं तुम्हें बताऊँगा। *यह पद संस्कृत के मूल पाठ में है, श्रीअरविन्द के अनुवाद में नहीं है। - अनुवादक

॥ शब्दावली ॥

गौतम - gautama - O Gautama!

हन्त - hanta - surely and

ते - te - to thee

इदम् गुह्यम् - idam guhyam - of this secret

सनातनम् ब्रह्म - sanātanam brahma - eternal Brahman

प्रवक्षामि - pravakṣāmi - I will tell

मरणम् प्राप्य - maraṇam prāpya - when one death

आत्मा - ātmā - the soul

अथा - athā - and

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code