देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ। वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥
॥ लिप्यन्तरणम् ॥
devairatrāpi vicikitsitaṁ kila tvaṁ ca mṛtyo yanna sujñeyamāttha | vaktā cāsya tvādṛganyo na labhyo nānyo varastulya etasya kaścit ||
॥ अन्वयः ॥
अत्र देवैः अपि विचिकित्सितं किल मृत्यो यत् च त्वं न सुज्ञेयम्। अथ त्वादृक् अन्यः अस्य वक्ता च न लम्यः। अतः एतस्य तुल्यः अन्यः कश्चित् वरः न अस्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
atra devaiḥ api vicikitsitaṁ kila mṛotyo yat ca tvaṁ na sujñeyam| atha tvādṛk anyaḥ asya vaktā ca na lamyaḥ| ( ataḥ) etasya tulyaḥ anyaḥ kaścit varaḥ na asti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ नचिकेतसः मोक्षजिज्ञासादाढर्यम् ]
एवं मृत्युना दुर्ज्ञेयत्वेन हेतुना प्रचाल्यमानोऽपि अप्रचलित: पुनराह - देवैरिति ।
देवैरत्रापि विचिकित्सितं किल त्वं च मृत्यो यन्न सुज्ञेयमात्थ ।
वक्ता चास्य त्वादृगन्यो न लभ्यो नान्यो वरस्तुल्य एतस्य कश्चित् ॥२२॥
यदि नाम वरः कश्चन स्यादस्य तुल्यः स्यान्नाम वरणीयः, नान्यो वरस्तुल्य एतस्य कश्चित्, इतो दुर्लभस्यान्यस्याभावात् । दुर्लभ एव हि वरणीयो भवति । दुर्लभतामेवाह देवैरत्रापि इत्यादिना । यः स्याद्देवानामपि सन्देहास्पदोऽयमर्थः, निखिलधर्मतत्त्ववित् त्वं च दुर्ज्ञेयमात्थ, वक्ता चास्य त्वादृक् - मम हितैकपर उपदेशपरो न लभ्यः, तत्सर्वथा दुर्लभोऽयमेव भवत्प्रसादात् मया प्राप्यः ॥२२॥
॥ आङ्गल-अर्थः ॥
“Even by the gods was this debated, it is sure, and thou thyself hast said that it is not easy of knowledge; never shall I find another like thee to tell of it, nor is there any other boon that is its equal.”
॥ हिन्दी-अर्थः ॥
''निश्चय ही देवगणो में भी इस विषय में संशयात्मक विवाद हुआ था और आपने ही कहा कि यह तथ्य सरलता से जानने योग्य नहीं है; आपके१ सदृश वक्ता मुझे अन्य कोई नहीं मिलेगा और न इस वर के तुल्य अन्य कोई वर है।''
॥ शब्दावली ॥
अत्र - atra - this or in this matter
किल - kila - it is sure
देवैः - devaiḥ - by the gods
अपि - api - even
विचिकित्सितम् - vicikitsitam - debated
मृत्यो - mṛotyo - O Death!
यत् - yat - that
त्वम् च आत्थ - tvam ca āttha - and thou thyself hast said
न सुज्ञेयम् - na sujñeyam - it is not easy of knowledge
त्वादृक् अन्यः - tvādṛk anyaḥ - other than you
अस्य वक्ता - asya vaktā - speaker of this / one to tell of this
च - ca - also
न लम्यः - na lamyaḥ - not to be found
एतस्य तुल्यः - etasya tulyaḥ - its equal
अन्यः कश्चित् - anyaḥ kaścit - any other
वरः - varaḥ - boon
न अस्ति - na asti - is not there

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know