तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ताः अनविप्रयुक्ताः। क्रियासु बाह्यान्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥
॥ लिप्यन्तरणम् ॥
tisro mātrā mṛatyumatyaḥ prayuktā anyonyasaktāḥ anaviprayuktāḥ | kriyāsu bāhyāntaramadhyamāsu samyakprayuktāsu na kampate jñaḥ ||
॥ अन्वयः ॥
तिस्रः मात्राः एकैकशः प्रयुक्ताः चेत् मृत्युमत्यः। अन्योन्यसक्ताः अनविप्रयुक्ताः भवति बाह्याभ्यन्तरमध्यमासु क्रियासु। सम्यक् प्रयुक्तासु ज्ञः न कम्पते ॥
॥ अन्वयलिप्यन्तरणम् ॥
tisraḥ mātrāḥ ( ekaikaśaḥ ) prayuktāḥ ( cet ) mṛtyumatyaḥ| anyonyasaktāḥ anaviprayuktāḥ ( bhavati ) bāhyābhyantaramadhyamāsu kriyāsu | samyak prayuktāsu jñaḥ na kampate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
तिस्त्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः । क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥६॥
प्रणवस्य यास्तिस्त्रो मात्रास्ताश्चेन्मात्रा मात्राविवेचनशून्येनान्योन्यसक्ता अनविप्रयुक्ताश्च प्रयुक्ता: स्यु: - अतिद्रुतोच्चारणत: मिथः संयुक्ता विलम्बोच्चारणतोऽत्यन्तविप्रकृष्टाश्च यदि प्रयुक्ताः स्युस्तदा प्रयोक्तुर्मृत्युमत्यः - मृत्युप्रदाः, अनर्थप्रदा भवन्ति । ताश्चेत्कायिकवाचिकमानसिकासु तिसृषु क्रियासु सम्यक्प्रयुक्ताः स्युस्तदानीं प्रयोक्ता ज्ञः - विवेचनवान्, न कम्पते - न च्यवते ॥६॥
॥ आङ्गल-अर्थः ॥
“'Children of death are the letters when they are used as three, the embracing and the inseparable letters; but the wise man is not shaken; for there are three kinds of works, outward deed and inward action and another which is blended of the two, and all these he doeth rightly without fear and without trembling.
॥ हिन्दी-अर्थः ॥
'''ये मात्राएँ, परस्पर संलग्न एवं अविच्छेद्य, जब तीन मात्राओं के रूप में प्रयोग की जाती हैं तब वे मृत्युमती, मृत्यु की सन्तान-रूप होती हैं; किन्तु ज्ञानी पुरुष इससे विकम्पित नहीं होता; कारण, त्रिविध कर्म होते हैं, बाह्यकर्म, आभ्यन्तर कर्म तथा दोनों के मिश्ररूप कर्म, और वह निर्भय होकर अकम्पित, अविचलित भाव से इन तीनों कर्मों को उचित रूप से करता है।
॥ शब्दावली ॥
अन्योन्यसक्ताः - anyonyasaktāḥ - the embracing
अनविप्रयुक्ताः - anaviprayuktāḥ - the inseparable letters
तिस्रः मात्राः - tisraḥ mātrāḥ - are the letters as three
प्रयुक्ताः - prayuktāḥ - when they are used
मृत्युमत्यः - mṛtyumatyaḥ - children of death
बाह्याभ्यन्तरमध्यमासु क्रियासु - bāhyābhyantaramadhyamāsu kriyāsu - in the outward deed and inward action and another which is blended of the two
सम्यक् प्रयुक्तासु - samyak prayuktāsu - all these done rightly
ज्ञः - jñaḥ - the wise man
न कम्पते - na kampate - neither fears nor trembles
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know