यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः। यथा पादोदरस्त्वचा विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥
॥ लिप्यन्तरणम् ॥
yaḥ punaretaṁ trimātreṇomityetenaivākṣareṇa paraṁ puruṣamabhidhyāyīta sa tejasi sūrye saṁpannaḥ | yathā pādodarastvacā vinirbhucyata evaṁ ha vai sa pāpmanā vinirbhuktaḥ sa sāmabhirunnīyate brahmalokaṁ sa etasmājjīvaghanātparātparaṁ puriśayaṁ puruṣamīkṣate tadetau ślokau bhavataḥ ||
॥ अन्वयः ॥
यः पुनः एतं त्रिमात्रेण ॐ इति एतेन अक्षरेण परं पुरुषम् अभिध्यायीत सः तेजसि सूर्ये सम्पन्नः। यथा पादोदरः त्वचा विनिर्मुच्यते एवं ह वै सः पाप्मना विनिर्मुक्तः। सः सामभिः उन्नीयते ब्रह्मलोकम्। सः एतस्मात् जीवधनात् परं पुरिशयम् पुरुषम् ईक्षते तत् एतौ श्लोकौ भवतः ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ punaḥ etaṁ trimātreṇa om iti etena akṣareṇa paraṁ puruṣam abhidhyāyīta saḥ tejasi sūrye sampannaḥ| yathā pādodaraḥ tvacā vinirmucyate evaṁ ha vai saḥ pāpmanā vinirmuktaḥ| saḥ sāmabhiḥ unnīyate brahmalokam | saḥ etasmāt jīvadhanāt paraṁ puriśayam puruṣam īkṣate tat etau ślokau bhavataḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परमपुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नः ।
यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्मना विनिर्मुक्त: स सामभिरुन्नीयते
ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥५॥
यः पुनरेतं परमपुरुषं त्रिमात्रेण प्रणवेनावलम्बन भूतेनोपास्ते, स सूर्ये सङ्गतः संस्तत: सर्प इव जीर्णया त्वचा पाप्मना विनिर्मुक्तः सामभिर्ब्रह्मलोकम् - परस्य ब्रह्मणो लोकमुन्नीयते । सः उपासकः, तत्र एतस्माज्जीवघनात् क्षरात्पुरुषात् यः परः - अक्षरः, ततोऽपि यः परः, तं पुरिशयं सर्वहृदयगुहायामन्तर्यामितया वर्तमानं परमपुरुषमीक्षते । प्रणवमधिकृत्यैतौ श्लोकौ भवतः ॥५॥
॥ आङ्गल-अर्थः ॥
“But he who by all the three letters meditateth by this syllable, even by OM on the Most High Being, he in the Solar World of light and energy is secured in his attainings; as a snake casteth off its slough, so he casteth off sin, and the hymns of the Samaveda escort him to the heaven of the Spirit. He from that Lower who is the density of existence beholdeth the Higher than the Highest of whom every form is one city. Whereof these are the verses.
॥ हिन्दी-अर्थः ॥
''किन्तु जो इन तीनों मात्राओंवाले 'ओम्' के द्वारा 'परमोच्च पुरुष' का ध्यान करता है, वह प्रकाश एवं ऊर्जा अर्थात् तेजोमय 'सूर्यलोक' को प्राप्त करता है। जिस प्रकार साँप अपनी केंचुली छोड़ देता है, उसी प्रकार यह व्यक्ति पापमुक्त हो जाता है, तथा सामवेद के मन्त्र उसे 'ब्रह्मलोक' में ले जाते हैं। वह उस 'निम्नतर' से, जो जीव की सघनता है, उस 'परात्पर' पुरुष का दर्शन करता है, जिसका प्रत्येक रूप एक धाम है। इसी विषय में ये दोनों श्लोक हैं।
॥ शब्दावली ॥
यः पुनः - yaḥ punaḥ - but he who
त्रिमात्रेण - trimātreṇa - by all the three letters
ॐ इति एतेन अक्षरेण - om iti etena akṣareṇa - even by OM, by this syllable
एतम् परम् पुरुषम् - etam param puruṣam - on the Most High Being
अभिध्यायीत - abhidhyāyīta - meditateth
तेजसि सूर्ये - tejasi sūrye - in the Solar World of light and energy
सः सम्पन्नः - saḥ sampannaḥ - he is secured in his attainings
यथा पादोदरः - yathā pādodaraḥ - as a snake
त्वचा विनिर्मुच्यते - tvacā vinirmucyate - casteth off its slough
एवम् ह वै - evam ha vai - so
पाप्मना सः विनिर्मुक्तः - pāpmanā saḥ vinirmuktaḥ - he casteth off sin
सामभिः - sāmabhiḥ - by the hymns of the Samaveda
सः उन्नीयते - saḥ unnīyate - he is uplifted
ब्रह्मलोकम् - brahmalokam - to the heaven of the Spirit
एतस्मात् जीवधनात् - etasmāt jīvadhanāt - from that Lower who is the density of existence
सः - saḥ -
परम् पुरिशयम् पुरुषम् - param puriśayam puruṣam - the Higher than the Highest of whom every form is one city
सः ईक्षते - saḥ īkṣate - he beholdeth
तत् एतौ श्लोकौ भवतः - tat etau ślokau bhavataḥ - whereof these are the verses
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know