Ad Code

इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्‌



इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम्‌। सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम्‌ ॥

॥ लिप्यन्तरणम् ॥

indriyebhyaḥ paraṁ mano manasaḥ sattvamuttamam | sattvādadhi mahānātmā mahato'vyaktamuttamam ||

॥ अन्वयः ॥

इन्द्रियेभ्यः मनः परम्। मनसः सत्वम् उत्तमम्। महान् आत्मा सत्वात् अधि। महतः अव्यक्तम् उत्तमम् ॥

॥ अन्वयलिप्यन्तरणम् ॥

indriyebhyaḥ manaḥ param| manasaḥ satvam uttamam| mahān ātmā satvāt adhi| mahataḥ avyaktam uttamam ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ परमात्मज्ञानविहीनस्य मोक्षासम्भवः ]

देवोऽहं मनुष्योऽहमित्याद्यनादिवासनादूषितचेतसां सपदि विविक्तात्मदर्शनं दुर्लभम् । वशीकृतेन्द्रियाणामेव तु तत्सम्भवः । इन्द्रियाणां वशीकरणमपि मनस्यवशीकृते नैकान्ततः सम्भवति, मनसो वशीकरणमपि नाध्यवसायवशीकरणादृते, तदेवं वशीकार्यत्वे प्रधानं किमिति पर्यालोचनायां सर्वतः परः पुरुषोत्तम एव, स चेत् प्रपदनेन वशीकृतः सर्वं सुखेन वशीकृतं स्यात् । उक्तं च भगवता - " मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते" (भगवद्गीता -  ७.१४ ) इति । तत्परमपुरुषं वशीकार्यं ज्ञात्वा मुच्यत इतीममर्थं प्रागुक्तं समये स्मारयति - इन्द्रियेभ्यः इति ।

इन्द्रियेभ्यः परं मनो मनसस्सत्त्वमुत्तमम् ।

सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ॥७॥

अव्यक्तात्तु परः पुरुषो व्यापको लिङ्ग एव च ।

यं ज्ञात्वा मुच्यते जन्तुरमृतत्त्वं च गच्छति ॥८॥

परम् - वशीकार्यत्वे श्रेष्ठमित्यर्थः । मन इति । इन्द्रियेभ्योऽर्थानामं, ततो मनसः परत्वं क्रमाद्बोध्यम् । 'इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः' (कठोपनिषद् -  ३.१०) इति प्राक् श्रुतत्वात् । सत्त्वमिहबुद्धिः, स्थानप्रामाण्यात्, 'मनसस्तु परा बुद्धि' रिति हि प्राक् श्रूयते । 

अव्यक्तं व्याख्यातम् । अलिङ्गः - लिङ्गागम्यः शब्दैकसमधिगम्य इति यावत् । यं ज्ञात्वा मुच्यते- संसारात् । अमृतत्त्वं च गच्छति - निरवधिकानन्दस्वरूपतां च प्राप्नोति ॥७,८॥

॥ आङ्गल-अर्थः ॥

The mind is higher than the senses, and above the mind is the thought, and above the thought is the mighty Spirit, and above the Mighty One is the Unmanifest.

॥ हिन्दी-अर्थः ॥

''मन इन्द्रियों सें ऊपर है, और मन से उच्चतर है बुद्धि (सत्त्व), बुद्धि (सत्त्व) से उच्चतर है महान् 'आत्मा', और उस 'महत्तत्त्व' से भी उच्चा है 'अव्यक्त'।

॥ शब्दावली ॥

इन्द्रियेभ्यः - indriyebhyaḥ - than the senses

मनः - manaḥ - the mind

परम् - param - is higher

मनसः - manasaḥ - than the mind

सत्वम् - satvam - the thought

उत्तमम् - uttamam - is above

महान् आत्मा - mahān ātmā - the mighty Spirit

सत्वात् अधि - satvāt adhi - is above the thought

महतः - mahataḥ - than the Mighty One

अव्यक्तम् - avyaktam - the Unmanifest

उत्तमम् - uttamam - is above

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code