Ad Code

इन्द्रियाणां पृथग्भावमुदयास्तमयौ



इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत्‌। पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥

॥ लिप्यन्तरणम् ॥

indriyāṇāṁ pṛthagbhāvamudayāstamayau ca yat | pṛthagutpadyamānānāṁ matvā dhīro na śocati ||

॥ अन्वयः ॥

पृथक् उत्पद्यमानानाम् इन्द्रियाणां पृथक् भावम् उदयास्तमयौ च यत् धीरः एतत् मत्वा न शोचति ॥

॥ अन्वयलिप्यन्तरणम् ॥

pṛthak utpadyamānānām indriyāṇāṁ pṛthak bhāvam udayāstamayau ca yat dhīraḥ ( etat ) matvā na śocati ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ आत्मानात्मविवेकज्ञानवतां सांसारिकदुःखरहितत्त्वम् ]

देहात्मभ्रमवतां नान्तरात्मविज्ञानं सिध्येत्, अतः प्रकृतिविविक्तः प्रथममवगन्तव्य इत्याशयेनाऽऽह - इन्द्रियाणामिति ।

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।

पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ॥६॥

इदमुपलक्षकं देहस्य। यद्यप्ययमन्धः अयमनन्धः अयं बधिरः अयमबधिर इति प्रतीयते नाम पृथग्भावः, तथापि नायमात्मस्वरूपे ज्ञानैकघने, किन्त्विन्द्रियेष्वेव । यतस्तान्येव भिन्नभिन्नस्वभावानि भवन्ति रूपव्यञ्जकानि कानिचिदेव शब्दव्यञ्जकानि कानिचिदेव इति । तेषां तेषां तत्तच्छक्तिप्रतिरोधाप्रतिरोधाभ्यां तथा तथा व्यवहारः । तस्मादुक्तं पृथग्भावमुक्तरीत्या, पृथगुत्पद्यमानानाम् - पृथक्स्वभावतयोत्पद्यमानानामिन्द्रियाणाम् एवेति मत्वा न शोचति - न तस्य सांसारिकशोकावकाश इति यावत् । इन्द्रियाणां यावुदयास्तमयौ तौ च मत्वा न शोचति ।

अयं भावः - यद्यप्ययं शेते अयं जागर्तीति भवति प्रत्ययः, वस्तुतस्तु नायमात्मस्वरूपं साक्षादवलम्बते, यतोऽयमात्मा नित्योदितज्ञानप्रभः, तस्मादिन्द्रियाणामुदयास्तमयविभागतो भवति तथा प्रत्यय:, इन्द्रियाणामुदयो - व्यापृति:, अस्तमयस्तदभावः, तत्तावेव जाग्रदादिदशोपाधितया मत्वा संसारशोकं न प्राप्नोतीति । एवं देवो मनुष्यः पशुः पक्षीत्यादिविभागं, जातो मृत इत्यादिविभागं च शरीर एव नात्मनीति मत्वा न शोचतीति बोध्यम् । एवं प्रकृतिविविक्तमात्मस्वरूपं जानतः क्रमात्परमात्मविज्ञानस्यापि सम्भवाद्भवति संसृतिनिस्सरणमिति भावः ॥६॥

॥ आङ्गल-अर्थः ॥

The calm soul having comprehended the separateness of the senses and the rising of them and their setting and their separate emergence putteth from him pain and sorrow.

॥ हिन्दी-अर्थः ॥

''धीर पुरुष इन्द्रियाँ की पृथक्ता को, उनके उदय तथा अस्त को तथा उनकी पृथक् उत्पत्ति को जान लेने पर दुːख-शोक को दूर हटा देता है।

॥ शब्दावली ॥

पृथक् - pṛthak - separate

उत्पद्यमानानाम् - utpadyamānānām - emergence

इन्द्रियाणाम् - indriyāṇām - of the senses

यत् पृथक् भावम् - yat pṛthak bhāvam - the separateness

उदयास्तमयौ - udayāstamayau - the rising of them and their setting

मत्वा - matvā - having comprehended

धीरः - dhīraḥ - the calm soul

न शोचति - na śocati - putteth from him pain and sorrow

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code