आत्मानं रथिनं विद्धि शरीरं रथमेव तु। बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥
॥ लिप्यन्तरणम् ॥
ātmānaṁ rathinaṁ viddhi śarīraṁ rathameva tu |uddhiṁ tu sārathiṁ viddhi manaḥ pragrahameva ca ||
॥ अन्वयः ॥
आत्मानं रथिनं विद्धि। शरीरं तु रथं एव। बुद्धिं तु सारथिं विद्धि। मनः च प्रग्रहम् एव ॥
॥ अन्वयलिप्यन्तरणम् ॥
ātmānaṁ rathinaṁ viddhi| śarīraṁ tu rathaṁ eva| buddhiṁ tu sārathiṁ viddhi| manaḥ ca pragraham eva ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ वैष्णवपदप्राप्तौ परिकरोपदेशः ]
अवशीकृतेन्द्रियस्यानर्थ एवेति स्फुटयन्रूपकेणाह - आत्मानमिति ।
आत्मानं रथिनं विद्धि शरीरं रथमेव च ।
बुद्धि तु सारथिं विद्धि मनः प्रग्रहमेव च ॥३॥
एतेन वक्ष्यमाणप्रकारेण वशीकरणमावश्यकमिति दृढीक्रियते । शरीरमेव रथं विद्धि - आत्मनो भोगापवर्गगतिसाधनत्वाच्छरीरं रथत्वेन निरूप्यते । रथिनं च आत्मानम् - आत्मा ह्यस्य स्वामी, यदनेन कर्मणा समधिगतोऽयम् । अधिरुह्य च एनमुपगच्छति भोगमपवर्गं वा ।
बुद्धि तु सारथिं विद्धि - बुद्धिः अध्यवसायः, अध्यवसायेन चोद्यमानानि हि धावन्तीन्द्रियाणि विषयानभि । यद्यपि मनसा व्यापार्यन्ते नामेन्द्रियाणि, तथाऽपि मनसोऽपि अध्यवसायस्य प्रबलत्त्वादध्यवसाय एव प्रधानो नेता । अतो निरूप्यते 'बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव चे 'ति ॥३॥
॥ आङ्गल-अर्थः ॥
Know the body for a chariot and the soul for the master of the chariot: know Reason for the charioteer and the mind for the reins only.
॥ हिन्दी-अर्थः ॥
''शरीर को रथ एवं आत्मा को रथ का स्वामी (रथी) जानो; 'बुद्धि' को सारथी एवं मन को केवल घोड़ों की रास (लगाम) जानो।
॥ शब्दावली ॥
शरीरम् - śarīram - the body
रथम् - ratham - a chariot
विद्धि - viddhi - know
आत्मानम् - ātmānam - the soul
तु - tu - and
रथिनम् - rathinam - the master of the chariot
एव - eva - indeed
बुद्धिम् - buddhim - Reason
तु - tu - and
सारथिम् - sārathim - the charioteer
विद्धि - viddhi - know
मनः - manaḥ - the mind
च - ca - and
प्रग्रहम् - pragraham - the reins
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know