यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके। यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥
॥ लिप्यन्तरणम् ॥
yathā''darśe tathā''tmani yathā svapne tathā pitṛloke | yathā'psu parīva dadṛśe tathā gandharvaloke chāyātapayoriva brahmaloke ||
॥ अन्वयः ॥
यथा आदर्शे तथा आत्मानि। यथा स्वप्ने तथा पितृलोके। यथा अप्सु तथा गन्धर्वलोके परिददृशे। ब्रह्मलोके छायातपयोः इव ॥
॥ अन्वयलिप्यन्तरणम् ॥
yathā ādarśe tathā ātmāni| yathā svapne tathā pitṛloke| yathā apsu tathā gandharvaloke paridadṛśe| brahmaloke chāyātapayoḥ iva ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ आत्मन: दुर्बोधत्वम् ]
स चायं सर्वस्य हृदि सन्निहितः सर्वान्तरात्मा सोऽयमुन्मील्य योगकलया हृदयकोशमात्मन्येवात्मानमवलोकयतामादर्श इवात्मनो मुखमवभासेत विशदतरम् । अन्यत्र तत्साक्षात्कारे यतमानानामतथाभूतानां तु न तथेत्याशयेनाह -
यथाऽऽदर्शे तथाऽऽत्मनि यथा स्वप्ने तथा पितृलोके ।
यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥५॥
यथाऽऽदर्शे मुखादि स्फुटमवभासते, तथाऽऽत्मनि - स्वतनौ स्वात्मेव परमात्माऽपि स्फुटमवभासते, योगोन्मीलितहृदयकोशानामिति यावत् । यथा स्वप्न इति । च प्रतिनियतदेशविशेषमेनं मत्वा केवलं पितृलोके वा गन्धर्वलोके वा हिरण्यगर्भलोके वाऽन्यत्र वा यत्र क्वापि साक्षात्कर्तुं यतन्ते, तेषां तु स्वप्न इव, अन्तर्जल इव, अल्पालोक इव च न स्फुटावभासस्तत्र तत्रेत्यर्थः ।
यद्वा - ननु भवादृशानां देवानामुक्तं परमात्मतत्त्वं सुगमं नाम, मादृशानां तु मानुषाणां कथं तदवगम इत्यत्राऽह - यथेति । आत्मनि - मनसि । पितृलोके वा गन्धर्वलोके वा, किं 'बहुना हिरण्यगर्भलोके वा स्याज्जन्म, किं तावता यावद्रजोधूसरं मनः तावत्तत्र तत्र तेषां तेषामुक्तमात्मस्वरूपमसंस्कृते मनसि नैव प्रकाशते, मनो ह्यादर्शवद्रजसाऽऽवृतं न प्रकाशयितुमर्हति, तच्चेत् सुसंस्कृतं निर्मले तस्मिन्नादर्शे इव निर्मले मुखादि स्फुटमवभासते तत्तत्त्वम्, तन्न कश्चिद्विशेषो मानुषेभ्यो देवानाम्, तद्यत्न आधीयतां मनःसंस्करण इति भावः ॥५॥
॥ आङ्गल-अर्थः ॥
In the self one seeth God as in a mirror but as in a dream in the world of the fathers, and as in water one seeth the surface of an object, so one seeth Him in the world of the Gandharvas; but He is seen as light and shade in the heaven of the Spirit.
॥ हिन्दी-अर्थः ॥
''आत्मा में 'परमेश्वर' को व्यक्ति इस प्रकार देखता है जैसे दर्पण में, किन्तु पितृलोक में स्वनवत् देखता है, और गन्धर्वों के लोक में वह 'उसे' वैसे ही देखता है, जैसे जल में किसी वस्तु की ऊपरी सतह को देखता है; परन्तु 'ब्रह्मलोक' में 'वह' प्रकाश तथा छाया के सदृश दिखायी देता है।
॥ शब्दावली ॥
यथा आदर्शे - yathā ādarśe - as in a mirror
तथा आत्मानि - tathā ātmāni - so in the self
यथा स्वप्ने - yathā svapne - as in a dream
तथा पितृलोके - tathā pitṛloke - in the world of the fathers
यथा अप्सु - yathā apsu - as in water (one seeth the surface of an object )
तथा गन्धर्वलोके - tathā gandharvaloke - so in the world of the Gandharvas
परिददृशे - paridadṛśe - He is seen
ब्रह्मलोके - brahmaloke - in the heaven of the Spirit
छायातपयोः इव - chāyātapayoḥ iva - as light and shade
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know