अथ हैनं सौर्यायणि गार्ग्यः पप्रच्छ। भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः स्वप्नान् पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥
॥ लिप्यन्तरणम् ॥
atha hainaṁ sauryāyaṇi gārgyaḥ papraccha | bhagavannetasmin puruṣe kāni svapanti kānyasmiñjāgrati katara eṣa devaḥ svapnān paśyati kasyaitatsukhaṁ bhavati kasminnu sarve sampratiṣṭhitā bhavantīti ||
॥ अन्वयः ॥
अथ गार्ग्यः सौर्यायणी एनं पप्रच्छ भगवन् एतस्मिन् पुरुषे कानि स्वपन्ति अस्मिन् कानि जाग्रति एषः कतरः देवः स्वप्नान् पश्यति कस्य एतत् सुखं भवति कस्मिन् सर्वे संप्रतिष्ठिताः भवन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
atha gārgyaḥ sauryāyaṇī enaṁ papraccha bhagavan etasmin puruṣe kāni svapanti asmin kāni jāgrati eṣaḥ kataraḥ devaḥ svapnān paśyati kasya etat sukhaṁ bhavati kasmin sarve saṁpratiṣṭhitāḥ bhavanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ जीवस्य स्वप्नसुषुप्तिविषयकः प्रश्नः ]
अथ परतरं तत्त्वं विचारमुखेन सुखेन ज्ञापयितुं चतुर्थः प्रश्नः प्रवर्तते ।
अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ ।
भगवन्नेतस्मिन्पुरुषे कानि स्वपन्ति कान्यस्मिञ्जाग्रति कतर एष देवः
स्वप्नान्पश्यति कस्यैतत्सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥१॥
एतस्मिन्पुरुषे कानि स्वपन्ति कानि जाग्रति - व्यवह्रियते नाम प्रसुप्तोऽयं पुरुष इति, तत्रेदं विचार्यम्, प्राणेन्द्रियादिभूयिष्ठेऽस्मिन्वपुषि पुरुषशब्दाभिलप्ये कानि स्वपन्ति, तदा कानि वा जाग्रति, यदि सर्वेषामेवास्तव्यापारता तदा शरीरनाश एव प्रसजेत् । यो देवः स्वप्नान्पश्यति एष देवः कः ? यच्चैतदात्मसंवेद्यं सुप्तोत्थितेन प्रत्यभिमर्श्यमानं सुखं तत्कस्य - किंसम्बन्धि । लौकिकं हि सर्वमेव सुखं शब्दाद्यर्थानुबन्ध्येव दृष्टम्, सुषुप्तिवेलायामर्थग्रहणप्रसङ्गाभावेन तदानीन्तनं सुखं किमनुबन्धीति भावः । यानि स्वपन्ति यानि वा जाग्रति, यदनुबन्धि वा सुखं, ये चान्ये सर्वे ते कस्मिन्प्रतिष्ठिता भवन्ति ॥१॥
॥ आङ्गल-अर्थः ॥
Then Gargya of the Solar race asked him, “Lord, what are they that slumber in this Existing and what that keep vigil? Who is this god who seeth dreams or whose is this felicity? Into whom do all they vanish?”
॥ हिन्दी-अर्थः ॥
तत्पश्चात् सौर्यायणी (सूर्यवंशी) गार्ग्य ने उनसे पूछा ''भगवन्, इस 'सत्ता' (पुरुष) में कौन सोते हैं तथा कौन जागते हैं? कौन है यह देव जो स्वप्न देखता है अथवा किसका है यह सुख? किसमें ये सब विलीन (समाहित) हो जाते हैं ?"
॥ शब्दावली ॥
अथ - atha - then
गार्ग्यः सौर्यायणी - gārgyaḥ sauryāyaṇī - Gargya of the Solar race
एनम् पप्रच्छ - enam papraccha - asked him
भगवन् - bhagavan - Lord!
एतस्मिन् पुरुषे - etasmin puruṣe - in this Existing
कानि स्वपन्ति - kāni svapanti - what are they that slumber?
अस्मिन् - asmin - in this
कानि जाग्रति - kāni jāgrati - what that keep vigil?
एषः कतरः देवः - eṣaḥ kataraḥ devaḥ - who is this god
स्वप्नान् पश्यति - svapnān paśyati - who seeth dreams?
कस्य - kasya - whose
एतत् सुखम् भवति - etat sukham bhavati - is this felicity?
कस्मिन् - kasmin - into whom do
सर्वे - sarve - all they
संप्रतिष्ठिताः भवन्ति - saṁpratiṣṭhitāḥ bhavanti - vanish?
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know