Ad Code

अथ हैनं सैब्यः सत्यकामः पप्रच्छ



अथ हैनं सैब्यः सत्यकामः पप्रच्छ। स यो ह वै तद् वगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति ॥

लिप्यन्तरणम्

atha hainaṁ saibyaḥ satyakāmaḥ papraccha | sa yo ha vai tad vagavanmanuṣyeṣu prāyaṇāntamoṅkāramabhidhyāyīta katamaṁ vāva sa tena lokaṁ jayatīti ||

अन्वयः

अथ शैब्यः सत्यकामः एनं पप्रच्छ भगवन् मनुष्येषु सः यः प्रायणान्तं तत् ओंकारम् अभिध्यायीत सः कतमं लोकं जयति। इति। तस्मै सः उवाच ह ॥

अन्वयलिप्यन्तरणम्

atha śaibyaḥ satyakāmaḥ enaṁ papraccha bhagavan manuṣyeṣu saḥ yaḥ prāyaṇāntaṁ tat oṁkāram abhidhyāyīta saḥ katamaṁ lokaṁ jayati| iti| tasmai saḥ uvāca ha ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

पञ्चमः प्रश्नः

[ प्रणवोपासना ]

अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वा व स तेन लोकं जयतीति । तस्मै स होवाच ॥१॥

एतदोङ्कारम् - लिङ्गव्यत्ययश्छान्दसः । प्रायणान्तम् आशरीरपातम् । तस्मै सत्यकामाय, सः - पिप्पलाद उवाच ॥१॥  

आङ्गल-अर्थः ॥

Then the Shaivya Satyakama asked him: “Lord, he among men that meditate unto death on OM the syllable, which of the worlds doth he conquer by its puissance?”

हिन्दी-अर्थः ॥

तत्पश्चात् शैव्य सत्यकाम ने उनसे पूछा, ''हे भगवन्, मनुष्यों में जो मृत्युपर्यन्त 'ओंकार' (एकाक्षर ॐ) का ध्यान करता है, वह उसकी शक्ति से किस लोक को जय करता है ?"

शब्दावली

अथ - atha - then

शैब्यः सत्यकामः - śaibyaḥ satyakāmaḥ - the Shaivya Satyakama

एनम् पप्रच्छ - enam papraccha - asked him

भगवन् - bhagavan - Lord!

मनुष्येषु सः - manuṣyeṣu saḥ - he among men that

प्रायणान्तम् - prāyaṇāntam - unto death

तत् ओंकारम् - tat oṁkāram - on OM the syllable

अभिध्यायीत - abhidhyāyīta - meditate

तेन - tena - by its puissance

कतमम् वाव लोकम् - katamam vāva lokam - which of the worlds

सः जयति इति - saḥ jayati iti - doth he conquer?

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code