Ad Code

विज्ञानात्मा सह देवैश्च सर्वैः प्राणा

 


विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भुतानि संप्रतिष्ठन्ति यत्र। तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥

लिप्यन्तरणम्

vijñānātmā saha devaiśca sarvaiḥ prāṇā bhutāni saṁpratiṣṭhanti yatra| tadakṣaraṁ vedayate yastu somya sa sarvajñaḥ sarvamevāviveśeti ||

अन्वयः

विज्ञानात्मा सर्वैः देवैः सह प्राणाः भूतानि यत्र सम्प्रतिष्ठन्ति सौम्य यः तु तत् अक्षरं वेदयते सः सर्वज्ञः सर्वम् एव आविवेश इति ॥

अन्वयलिप्यन्तरणम्

vijñānātmā sarvaiḥ devaiḥ saha prāṇāḥ bhūtāni yatra sampratiṣṭhanti saumya yaḥ tu tat akṣaraṁ vedayate saḥ sarvajñaḥ sarvam eva āviveśa iti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र । तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाऽऽविवेशेति ॥११॥

यस्तु विज्ञानात्मा - विज्ञानस्वरूपो जीवः । विज्ञानात्मेत्येतावता स न विज्ञातेति न भ्रमितव्यम्, अव्यवहितमन्त्र एव 'एष हि द्रष्टे' त्यादिना विज्ञातृताऽप्युक्ता । सह सर्वैरिन्द्रियैः, यत्राक्षरे सम्प्रतिष्ठितः, प्राणा भूतानि च यत्राक्षरे, तदक्षरं यो वेत्ति स सर्वज्ञो भवति । सर्वांश्च कामानाप्नोति । न हि ब्रह्मसुखे प्रविष्टस्यावशिष्येत नाम किञ्चित्सुखं, सर्वमेव सुखं ब्रह्मसुखेऽन्तर्गतमेव । समुद्रे गोष्पदवदिति भावः ॥११॥

॥ इति प्रश्नोपनिषद्भाष्ये चतुर्थः प्रश्नः ॥

आङ्गल-अर्थः ॥

“'He, O fair son, that knoweth the Imperishable into whom the understanding self departeth, and all the Gods, and the life-breaths and the elements, he knoweth the Universe!'

हिन्दी-अर्थः ॥

" 'हे सौम्य वत्स! जो उस 'अक्षर' तत्त्व को जानता है जिसमें विज्ञानात्मा, अर्थात् बोधात्मक चैतन्य, समस्त देवगण, प्राणवायु एवं सभी महाभूत समाविष्ट हो जाते हैं, वह सर्वज्ञ है, वह सम्पूर्ण 'विश्व' को जानता है।'''

शब्दावली

सौम्य - saumya - O fair son!

विज्ञानात्मा - vijñānātmā - the understanding self, and, and and,!'

सर्वैः देवैः सह - sarvaiḥ devaiḥ saha - with all the Gods

प्राणाः - prāṇāḥ - the life-breaths

भूतानि - bhūtāni - the elements

यत्र सम्प्रतिष्ठन्ति - yatra sampratiṣṭhanti - into whom departeth

यः तु - yaḥ tu - that

तत् अक्षरम् - tat akṣaram - the Imperishable

वेदयते - vedayate - knoweth

सः सर्वज्ञः - saḥ sarvajñaḥ - he knoweth the Universe

सर्वम् एव आविवेश इति - sarvam eva āviveśa iti - has entered into everything

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code