Ad Code

तान्‌ वरिष्ठः प्राण उवाच। मा



तान्‌ वरिष्ठः प्राण उवाच। मा मोहमापद्यथ अहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति तेऽश्रद्दधाना बभूवुः ॥

लिप्यन्तरणम्

tān variṣṭhaḥ prāṇa uvāca | mā mohamāpadyatha ahamevaitatpañcadhātmānaṁ pravibhajyaitadbāṇamavaṣṭabhya vidhārayāmīti te'śraddadhānā babhūvuḥ ||

अन्वयः

वरिष्ठः प्राणः तान् उवाच मोहं मा आपद्यथ अहम् एव एतत् आत्मानं पञ्चधा प्रविभज्य एतत् बाणम् अवष्टभ्य विधारयामि। ते अश्रद्धधानाः बभूवुः ॥

अन्वयलिप्यन्तरणम्

variṣṭhaḥ prāṇaḥ tān uvāca mohaṁ mā āpadyatha aham eva etat ātmānaṁ pañcadhā pravibhajya etat bāṇam avaṣṭabhya vidhārayāmi| te aśraddhadhānāḥ babhūvuḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

तान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाहमे वै तत्पञ्चधात्मानं प्रविभज्यैतद्वाणमवष्टभ्य विधारयामीति ॥३॥

तानेवमभिमन्यमानान्वरिष्ठः प्राणः - मुख्यप्राण उवाच। मा मोहमापद्यथ - वयमेव स्वातन्त्र्येण विधारका इति माभूद्वो मोहः । अहमेक एवात्मानं प्राणापानादिरूपेण पञ्चधा विभज्यैतच्छरीरं विधारयामि । अवकाशदानादि यद्वः कार्यमुपलभ्यते तदसति मत्सान्निध्ये न घटेतेति भावः ॥३॥

आङ्गल-अर्थः ॥

“Then answered Breath, their mightiest: 'Yield not unto delusion; I dividing myself into this fivefold support this harp of God, I am its preserver.' But they believed him not.

हिन्दी-अर्थः ॥

''उनमें वरिष्ठ (सर्वाधिक शक्तिशाली) 'प्राण' बोला, ''आप मोह- भ्रम में मत पड़िये; मैं स्वयं को ही पंचविध रूप में विभक्त करके भगवान् के इस वाद्ययन्त्र को सहारा देता हूँ, मैं ही इसका संरक्षक हूँ।'' किन्तु उन्होंने उस पर विश्वास नहीं किया।

शब्दावली

वरिष्ठः प्राणः - variṣṭhaḥ prāṇaḥ - Breath, their mightiest

तान् उवाच - tān uvāca - answered to them

मोहम् - moham - unto delusion

मा आपद्यथ - mā āpadyatha - yield not

अहम् एव - aham eva - I alone

आत्मानम् - ātmānam - myself

एतत् प्रविभज्य पञ्चधा - etat pravibhajya pañcadhā - dividing into this fivefold

एतत् बाणम् - etat bāṇam - this harp of God

अवष्टभ्य - avaṣṭabhya - support

विधारयामि - vidhārayāmi - I am its preserver

ते - te - they

अश्रद्धधानाः बभूवुः - aśraddhadhānāḥ babhūvuḥ - believed him not

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code