Ad Code

तस्मै स होवाचाकाशो ह वा एष देवो

 


तस्मै स होवाचाकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षुः श्रोत्रं च। ते प्रकाश्याभिवदन्ति वयमेतद्बाणमवष्टभ्य विधारयामः ॥

लिप्यन्तरणम्

tasmai sa hovācākāśo ha vā eṣa devo vāyuragnirāpaḥ pṛthivī vāṅmanaścakṣuḥ śrotraṁ ca | te prakāśyābhivadanti vayametadbāṇamavaṣṭabhya vidhārayāmaḥ |

अन्वयः

सः तस्मै उवाच एषः देवः आकाशः वायुः अग्निः आपः पृथिवी वाक् मनः चक्षुः श्रोत्रम् च ते प्रकाश्य अभिवदन्ति वयम् एतत् बाणम् अवष्टभ्य विधारयामः॥ २॥

अन्वयलिप्यन्तरणम्

saḥ tasmai uvāca eṣaḥ devaḥ ākāśaḥ vāyuḥ agniḥ āpaḥ pṛthivī vāk manaḥ cakṣuḥ śrotram ca te prakāśya abhivadanti vayam etat bāṇam avaṣṭabhya vidhāarayāmaḥ ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

तस्मै स होवाचाकाशो हवा एष देवो वायुरग्निरापः पृथिवी वाड्मनश्चक्षुः श्रोत्रं च ।

ते प्रकाश्याभिवदन्ति वयमेतद्वाणमवष्टभ्य विधारयामः ॥२॥

तस्मै स होवाच स पिप्पलादः, तस्मै वैदर्भये उवाच । आकाशादीनां देवविशेषाधिष्ठातृत्वाद्देव इत्युक्तिः । दीव्यति गच्छतीति देवः गमनशीलस्तादृशो वायुरिति व्याख्यानं तु न रमणीयम् । प्रश्ने कत्येव देवा इति बहुवचनान्तेन निर्देशात् प्रतिवचनेऽपि देव इत्यस्य सर्वत्रान्वय एवोचितः । आकाशादीनि शरीरारम्भकाणि भूतानि करणानि च वागादीनि सम्भूय धारयन्ति । अवकाशदानादिभिरंशतस्ते धारयन्ति नाम । एवम्भूतास्ते अवकाशप्रदानादिरूपं स्वकार्यं धारणलेशं प्रकाश्य, असहायोऽहमेक एवेदं शरीरमवष्टभ्य विशेषतो धारयामीति सर्वे प्रत्येकमभिवदन्ति स्पर्धमाना इति भावः । गतिशीलत्वाच्छरीरमिह बाणशब्देनोच्यते ॥२॥

आङ्गल-अर्थः

To him answered the Rishi Pippalada: “These are the Gods, even Ether and Wind and Fire and Water and Earth and Speech and Mind and Sight and Hearing. These nine illumine the creature; therefore they vaunted themselves,-We, even we support this harp of God and we are the preservers

हिन्दी-अर्थः

ऋषि पिप्पलाद ने उसे उत्तर दिया, ''ये देवगण हैं-'आकाश', 'वायु', 'अग्नि', 'जल' 'पृथ्वि', 'वाक्' 'मन', 'चक्षु' तथा 'श्रोत्र'। ये नौ देव प्रजा को प्रकाशित करते हैं; इसीलिए उन्होंने अभिमानपूर्वक कहा-'हम', हम ही भगवान् के वाद्ययन्त्र को सहारा देते हैं तथा हम ही उसके संरक्षक हैं।

शब्दावली

सः - saḥ - he, the Rishi Pippalada

तस्मै - tasmai - to him

उवाच - uvāca - answered

एषः देवः - eṣaḥ devaḥ - these are the Gods

आकाशः - ākāśaḥ - Ether

वायुः - vāyuḥ - Wind

अग्निः - agniḥ - Fire

आपः - āpaḥ - Water

पृथिवी - pṛthivī - Earth

वाक् - vāk - Speech

मनः - manaḥ - Mind

चक्षुः - cakṣuḥ - Sight

श्रोत्रम् च - śrotram ca - and Hearing

ते - te - these nine

प्रकाश्य - prakaashya - illumine the creature

अभिवदन्ति - abhivadanti - therefore they vaunted themselves

वयम् - vayam - ve

एतत् बाणम् - etat baaNam - this harp of ġod

अवष्टभ्य - avastabhya - ve support

विधारयामः - vidhaaarayaamah - ve preserve

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code