Ad Code

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च

 ॥ अथ उपनिषद् ॥

॥ अथ उपनिषद् ॥

>

मुण्डकोपनिषद्

>



गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु। कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्वे एकीभवन्ति

लिप्यन्तरणम्

gatāḥ kalāḥ pañcadaśa pratiṣṭhā devāśca sarve pratidevatāsu | karmāṇi vijñānamayaśca ātmā pare'vyaye sarve ekībhavanti ||

अन्वयः

तेषां पञ्चदश कलाः प्रतिष्ठाः गताः भवन्ति सर्वे देवाः च प्रतिदेवतासु गताः भवन्ति तेषाम् कर्माणि विज्ञानमयः आत्मा च सर्वे परे अव्यये एकीभवन्ति ॥

अन्वयलिप्यन्तरणम्

( teṣāṁ ) pañcadaśa kalāḥ pratiṣṭhāḥ gatāḥ ( bhavanti ) sarve devāḥ ca pratidevatāsu ( gatāḥ bhavanti ) ( teṣām ) karmāṇi vijñānamayaḥ ātmā ca sarve pare avyaye ekībhavanti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

[ मोक्षकाले देहजनकसर्वकलानां परमात्मनि संगतत्त्वम् ]

गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवतासु । कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति ॥७॥

मुच्यमानस्य चरमशरीरं त्यजतः प्राणादयः पञ्चदश कला यथासम्भवं स्वस्य स्वस्य प्रतिष्ठा : उपादानतत्त्वानि गता भवन्ति, लीयन्त इति यावत् । ताश्च कला: प्रश्नोपनिषदि श्रुताः । वागादिस्थानेषु स्थितास्तत्तदभिमानिदेवता अग्न्यादय: प्रतिदेवतासु स्वस्य स्वस्य प्रतिनियतदेवतास्वरूपे एकीभवन्ति । वागाद्यधिष्ठानं त्यक्त्वा स्वस्वरूपेण वर्तन्त इति यावत् । कर्माणि - भोगात्प्रक्षीणानि यानि तेभ्योऽन्यानि, योऽयं विज्ञानमय आत्मा - विज्ञानप्रचुरो जीवात्मा, सर्व एतेऽव्यये परे ब्रह्मणि एकीभवन्ति - अविभागं यान्ति । विभागो नाम भेदकाकारः, स च नामरूपादिः, तत्प्रहाणमविभागः । उक्तं चोपनिषत्प्रकाशिकायाम् - 'परमात्मप्रीत्यप्रीतिरूपाणां कर्मणां तत्रैकीभावस्तद्धर्मभूतज्ञाने लय एव, जीवस्यैकी भावो नामरूपात्मकभेदकाकारप्रहाण 'मिति ॥७॥

आङ्गल-अर्थः ॥

The fifteen parts return into their foundations, and all the gods pass into their proper godheads, works and the Self of Knowledge,-all become one in the Supreme and Imperishable.

हिन्दी-अर्थः

पन्द्रह कलाएँ अपनी-अपनी प्रतिष्ठा (आधारभूत स्थिति) में लौट जाती हैं, तथा समस्त देवगण अपने-अपने देवत्व में चले जाते हैं, कर्म तथा 'विज्ञानमय आत्मा'-सभी उस 'परम' 'अविनाशी' 'परमात्मा' में हो जाते हैं। ११अथवा, ''अर्थ''

शब्दावली

पञ्चदश कलाः - pañcadaśa kalāḥ - the fifteen parts

प्रतिष्ठाः गताः - pratiṣṭhāḥ gatāḥ - return into their foundations

सर्वे देवाः च - sarve devāḥ ca - all the gods

प्रतिदेवतासु - pratidevatāsu - pass into their proper godheads

कर्माणि - karmāṇi - works

विज्ञानमयः आत्मा च - vijñānamayaḥ ātmā ca - and the Self of Knowledge

सर्वे - sarve - all

परे अव्यये - pare avyaye - in the Supreme and Imperishable

एकीभवन्ति - ekībhavanti - become one

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code