परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरम्लोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥
॥ लिप्यन्तरणम् ॥
paramevākṣaraṁ pratipadyate sa yo ha vai tadacchāyamaśarīramlohitaṁ śubhramakṣaraṁ vedayate yastu somya sa sarvajñaḥ sarvo bhavati tadeṣa ślokaḥ ||
॥ अन्वयः ॥
यः ह वै तत् अच्चायं अशरीरं अलोहितम् शुभ्रम् अक्षरं वेदयते सः परम् अक्षरम् एव प्रतिपद्यते। सौम्य यः तु एवं विद्वान् सः सर्वज्ञः सर्वः भवति। तत् एषः श्लोकः भवति ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ ha vai tat accāyaṁ aśarīraṁ alohitam śubhram akṣaraṁ vedayate saḥ param akṣaram eva pratipadyate| saumya yaḥ tu ( evaṁ vidvān ) saḥ sarvajñaḥ sarvaḥ bhavati| tat eṣaḥ ślokaḥ bhavati ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
एवम्भूतपरमात्मवेदनस्य फलमाह - परमिति ।
परमेवाक्षरं प्रतिपद्यते स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वज्ञः सर्वो भवति तदेष श्लोकः ॥१०॥
अच्छायम् - छायाशब्देन तम उच्यते, अगुणमिति यावत् । अत एव अशरीरम् गुणमयशरीररहितम् अलोहितम् - लोहितशब्देन हेयं लक्ष्यते, हेयप्रतिभटमिति यावत् । अत एव शुभ्रम् । अक्षरं वेदयते - जानाति; उपास्त इति यावत् । स परमेवाक्षरम् - परमात्मानमाप्नोतीत्यर्थः । यस्तु परमक्षरं प्रतिपद्यते स सर्वज्ञो भवति सर्वश्च भवति अभिलषितसर्वरूपो भवति, 'कामान्नी कामरूप्यनुसञ्चरन् ' ( तैत्तिरीय.भृ.४३ ) इत्युक्तप्रकारेण कामरूपो भवतीत्येतत्, अवाप्तसमस्तकामो भवतीति यावत् । तत् - अक्षरमधिकृत्य, एषः - वक्ष्यमाणः श्लोकः॥१०॥
॥ आङ्गल-अर्थः ॥
“He that knoweth the shadowless, colourless, bodiless, luminous and imperishable Spirit, attaineth to the Imperishable, even to the Most High. O fair son, he knoweth the All and becometh the All. Whereof this is the Scripture.
॥ हिन्दी-अर्थः ॥
''जो उस छायाहीन, वर्णहीन, अशरीरी शुभ्रे एवं अक्षर 'चैतन्य', 'जिवात्मा' को जानता है, वह उस 'परम अक्षर', 'सर्वोच्च तत्त्व' को प्राप्त करता है। हे सौम्य वत्स, वह सर्वज्ञ मनुष्य स्वयं ही 'सर्वम्' बन जाता है। जिसके विषय में यह श्लोक (श्रुति-वचन) है।
॥ शब्दावली ॥
यः ह वै तत् - yaḥ ha vai tat - he that
अच्चायम् - accāyam - the shadowless
अशरीरम् - aśarīram - bodiless
अलोहितम् - alohitam - colourless
शुभ्रम् - śubhram - luminous
अक्षरम् - akṣaram - imperishable Spirit
वेदयते - vedayate - knoweth
सः - saḥ - he
परम् अक्षरम् एव - param akṣaram eva - to the Imperishable, even to the Most High
प्रतिपद्यते - pratipadyate - attaineth
सौम्य - saumya - O fair son!
सः सर्वज्ञः - saḥ sarvajñaḥ - he knoweth the All
सर्वः भवति - sarvaḥ bhavati - becometh the All
तत् एषः श्लोकः भवति - tat eṣaḥ ślokaḥ bhavati - whereof this is the Scripture
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know