सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बह्यिदोषैः। एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥
॥ लिप्यन्तरणम् ॥
sūryo yathā sarvalokasya cakṣurna lipyate cākṣuṣairbahyidoṣaiḥ | ekastathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ ||
॥ अन्वयः ॥
सर्वलोकस्य चक्षुः सूर्यः यथा चक्षुषैः बह्यदोषैः न लिप्यते। तथा एकः सर्वभूतान्तरात्मा लोकदुःखेन न लिप्यते। यतः सः बाह्यः ॥
॥ अन्वयलिप्यन्तरणम् ॥
sarvalokasya cakṣuḥ sūryaḥ yathā cakṣuṣaiḥ bahyadoṣaiḥ na lipyate| tathā ekaḥ sarvabhūtāntarātmā lokaduḥkhena na lipyate| ( yataḥ saḥ ) bāhyaḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ बाह्यदोषासंस्पृष्टः परमात्मा ]
ननु परस्य ब्रह्मण आत्मतया सर्वत्रानुप्रवेशे जीवस्येव सुखदुःखादिलेप: स्यादिति शङ्कां दृष्टान्ततो वारयति - सूर्यो यथा इति ।
सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः ।
एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः ॥११॥
सूर्यो हि रश्मिद्वारा सर्वस्य चक्षुषि सन्निहितो नाम, 'रश्मिभिरेषोऽस्मिन्प्रतिष्ठितः' (बृहदारण्यकोपनिषद् - ७.५.१) इति हि श्रूयते । तथाऽपि न लिप्यते चाक्षुषैर्बाह्यदोषैः । चाक्षुषा हि दोषाः काचादय: । बाह्याः - बहिः प्रसरणशीलाः । न तैश्चक्षुषोऽन्तः सन्निहितः सूर्योऽभिभूयते ।
यद्वा - चाक्षुषा ये दोषाश्चक्षुर्मलादयो न तैर्बाह्यैरादित्यो लिप्यते । तथा सर्वेषामन्तरात्मा सोऽयमेको न लिप्यते लोकदुःखेन । यतोऽसौ लोकतो बाह्यः - विलक्षणः,अकर्मवश्य इत्येतत् ।अधिष्ठेयाच्चक्षुषोऽत्यन्तविसजातीयस्तस्याधिष्ठाता सूर्यो यथा चाक्षुषैर्दोषैर्न लिप्यते, सर्वभूतान्तरात्मा - सर्वस्य लोकस्यान्तर्यामितयाऽधिष्ठाताऽन्तःसन्निहितोऽप्यत्यन्तविसजातीयो न तद्दोषैर्लिप्यत इति भावः ॥११॥
॥ आङ्गल-अर्थः ॥
Even as the Sun is the eye of all this world, yet it is not soiled by the outward blemishes of the visual, so there is one Spirit within all creatures, but the sorrow of this world soils it not, for it is beyond grief and his danger.
॥ हिन्दी-अर्थः ॥
''जिस प्रकार 'सूर्य' इस सकल जगत् का चक्षु है तथापि बाह्य चाक्षुष दोष उसे लिप्त नहीं करते, इसी प्रकार समस्त प्राणियों में विद्यमान् 'अन्तरात्मा' एक ही है, परन्तु सांसारिक दुːख उसे लिप्त नहीं करते इस कारण, वह दुःख तथा उसके भय से परे है।
॥ शब्दावली ॥
सर्वलोकस्य चक्षुः - sarvalokasya cakṣuḥ - the eye of all this world
सूर्यः - sūryaḥ - the Sun
यथा - yathā - even as
चक्षुषैः बह्यदोषैः - cakṣuṣaiḥ bahyadoṣaiḥ - by the outward blemishes of the visual
न लिप्यते - na lipyate - not soiled
तथा - tathā - so
एकः सर्वभूतान्तरात्मा - ekaḥ sarvabhūtāntarātmā - there is one Spirit within all creatures
लोकदुःखेन - lokaduḥkhena - by the sorrow of this world
न लिप्यते - na lipyate - for it is beyond grief and his danger
यतः सः बाह्यः - yataḥ saḥ bāhyaḥ - for it is beyond grief and his danger
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know