एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति। तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥
॥ लिप्यन्तरणम् ॥
eko vaśī sarvabhūtāntarātmā ekaṁ rūpaṁ bahudhā yaḥ karoti | tamātmasthaṁ ye'nupaśyanti dhīrāsteṣāṁ sukhaṁ śāśvataṁ netareṣām ||
॥ अन्वयः ॥
यः एकः वशी सर्वभुतान्तरात्मा एकं रूपं बहुधा करोति। तं धिराः आत्मस्थम् अनुपश्यन्ति। तेषाम् एव शाश्वतं सुखं भवति इतरेषाम् ॥
॥ अन्वयलिप्यन्तरणम् ॥
yaḥ ekaḥ vaśī sarvabhutāntarātmā ekaṁ rūpaṁ bahudhā karoti| taṁ dhirāḥ ātmastham anupaśyanti| teṣām ( eva ) śāśvataṁ sukhaṁ ( bhavati ) itareṣām ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ सर्वान्तरात्मज्ञानेन शाश्वतसुखप्राप्तिः ]
एतद्विज्ञानादेव शाश्वतं सुखं नान्यथेत्याह - एक इति ।
एको वशी सर्वभूतान्तरात्मा एकं बीजं बहुधा यः करोति ।
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम् ॥१२॥
यश्चायं सर्वभूतान्तरात्मा, अयमेव वशी । अन्तरात्मनो हि वशे सर्वाणि भूतानि । एकश्चायं न ह्यस्य समोऽन्यः । अयमेव च सर्वस्य कार्यस्य कारणमित्याह - एकं बीजं बहुधा यः करोतीति । एकम् अविभक्तं स्वस्मात् सर्वस्य विकारस्य बीजभूतं प्रधानं, महदादिरूपेण बहुधा योऽयं सङ्कल्पमात्रेण करोति । बीजस्याविभक्तत्वोक्तयाऽविभक्तविशेषणद्वारा सर्वविकारोपादानत्वमन्तर्यामिण्युक्तं भवति । तं सर्वकारणं सर्वान्तरात्मानं, ये आत्मन्यन्तरात्मतया विद्यमानं श्रवणमनु साक्षात्कुर्वन्ति तेषामेव शाश्वतं सुखं सिद्ध्यति नेतरेषाम् । ये पुनरेनं नैव जानन्ति, ये वा शास्त्रतो जानन्ति नाम, न योगत: साक्षात्कुर्वन्ति, ये वाऽन्यत्र केवलं नात्मनि, न तेषां नित्यं सुखं सिद्ध्येत्, किन्तु सुखाभासरूपा संसृतिरेव ॥१२॥
॥ आङ्गल-अर्थः ॥
One calm and controlling Spirit within all creatures that maketh one form into many fashions; the calm and strong who see Him in the self as in a mirror, theirs is eternal felicity and 'tis not for others.
॥ हिन्दी-अर्थः ॥
''समस्त प्राणियों के अन्तर् में स्थित, शान्त एवं सबको वश में रखने वाला एकमेव 'आत्मा' एक ही रूप को बहुविध रचता है; जो धीर पुरुष 'उस' का आत्मा में दर्पणवत् अनुदर्शन करते हैं उन्हें शाश्वत सुख प्राप्त होता है, इससे इतर अन्य लोगों को नहीं ।
॥ शब्दावली ॥
एकः - ekaḥ - One
वशी - vaśī - calm and controlling
सर्वभुतान्तरात्मा - sarvabhutāntarātmā - Spirit within all creatures
यः - yaḥ - that
एकम् रूपम् - ekam rūpam - one form
बहुधा - bahudhā - many fashions
करोति - karoti - maketh into
तम् - tam - Him
ये धिराः - ye dhirāḥ - the calm and strong
आत्मस्थम् - ātmastham - in the self as in a mirror
अनुपश्यन्ति - anupaśyanti - see
तेषाम् - teṣām - theirs
शाश्वतम् सुखम् - śāśvatam sukham - the eternal felicity
न इतरेषाम् - na itareṣām - 'tis not for others
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know