पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः। अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥
॥ लिप्यन्तरणम् ॥
pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ | anandā nāma te lokāstānsa gacchati tā dadat ||
॥ अन्वयः ॥
पीतोदकाः जग्धतृणाः दुग्धदोहाः निरिन्द्रियाः ताः ददत् सः तान् गच्छति ते लोकाः अनन्दाः नाम ॥
॥ अन्वयलिप्यन्तरणम् ॥
pītodakāḥ jagdhatṛṇāḥ dugdhadohāḥ nirindriyāḥ tāḥ dadat saḥ tān gacchati te lokāḥ anandāḥ nāma ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ नचिकेतसः विचारप्रकार: ]
पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।
अनन्दा नाम ते लोकास्तान्स गच्छति ता ददत् ॥३॥
पीतोदका जग्धतृणा दुग्धदोहा : - प्राक्पीतानि नाम जलानि जग्धानि च तृणानि दुग्धाश्च दोहा:, अद्य तु कथाशेषास्ते व्यापारा इति भावः । निरिन्द्रियाः - प्रजननासमर्थाश्च, एवम्भूता या गावस्ता ददत्स यजमानोऽनन्दा नाम ये लोकास्तान् गच्छति । असुखाँल्लोकानाप्नोतीत्येतत् । तदेवं जीर्णा गाः प्रयच्छतो मम पितुरनिष्टं खलु भवेदित्याशङ्कत इति भावः ॥३॥
॥ आङ्गल-अर्थः ॥
“Cattle that have drunk their water, eaten their grass, yielded their milk, worn out their organs, of undelight are the worlds which he reaches who gives such as these.”
॥ हिन्दी-अर्थः ॥
"जो गायें जल पी चुकी हैं, घास खा चुकी हैं, जिनका दूध दुहा जा चुका है, जो इन्द्रियहीन हो रही हैं, ऐसी गायों का दान देने वाला आनन्दविहीन लोकों मे जाता है ।"
॥ शब्दावली ॥
पीतोदकाः - pītodakāḥ - (cattle that have) drunk their water
जग्धतृणाः - jagdhatṛṇāḥ - (cattle that have) eaten their grass
दुग्धदोहाः - dugdhadohāḥ - (cattle that have) yielded their milk
निरिन्द्रियाः - nirindriyāḥ - (cattle that have) worn out their organs
ताः - tāḥ - these
ददत् - dadat - giving
सः - saḥ - he
अनन्दाः - anandāḥ - undelight
नाम - nāma - by name
तान् - tān - those
गच्छति - gacchati - goes/reaches/attains
ये ते - ye te - which
लोकाः - lokāḥ - worlds
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know