पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम्। अथ धीरा अमृतत्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥
॥ लिप्यन्तरणम् ॥
parācaḥ kāmānanuyanti bālāste mṛtyoryanti vitatasya pāśam | atha dhīrā amṛtatvaṁ viditvā dhruvamadhruveṣviha na prārthayante ||
॥ अन्वयः ॥
वालाः पराचः कामान् अनुयन्ति ते विततस्य मॄत्योः पाशं यन्ति। अथ इह धीराः अध्रुवेषु अमृतत्वं ध्रुवं विदित्वा न प्रार्थयन्ते ॥
॥ अन्वयलिप्यन्तरणम् ॥
vālāḥ parācaḥ kāmān anuyanti te vitatasya mṝtyoḥ pāśaṁ yanti| atha iha dhīrāḥ adhruveṣu amṛtatvaṁ dhruvaṁ viditvā na prārthayante ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ विवेक्यविवेकिनां विषयतदभावेषु प्रावण्यवैलक्षण्यम् ]
अर्थपराणामनर्थं विभावयतां विजानतां नार्थेषु रुचिः स्यात् सत्स्वपि तत्प्रकाशकेषु करणेष्वित्यभिप्रेत्याह - पराचः इति ।
पराचः कामाननुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम् ।
अथ धीरा अमृतत्त्वं विदित्वा ध्रुवमध्रुवेष्विह न प्रार्थयन्ते ॥२॥
आत्मकामानां कामो व्यावर्त्यते - पराच इति । पराचः कामान् - शब्दादीन्, अनुयन्ति - अनुगच्छन्ति, बालास्ते । बालो हि अपरिज्ञाय स्वानर्थं प्रलोभनमनुगच्छेत्। कामाननुगच्छन्तो ह्येते विस्तृतस्य मृत्योः पाशं यन्ति परितः प्रसृतस्य जननमरणादिलक्षणस्य संसारस्य बन्धं प्राप्नुवन्ति । धीराः - अचलाः, प्रलोभनानामवशगाः । एते तु अमृतत्वं ध्रुवं मत्त्वा - मुक्तिमेव ध्रुवं फलं विनिश्चित्य, अध्रुवेषु कामेषु किमपि न प्रार्थयन्ते । तद्दोषदर्शनादिति भावः ॥२॥
॥ आङ्गल-अर्थः ॥
The rest childishly follow after desire and pleasure and walk into the snare of Death who gapeth wide for them. But calm souls having learned of immortality seek not for permanence in the things of this world that pass and are not.
॥ हिन्दी-अर्थः ॥
''अन्यान्य बालबुद्धि लोग कामनाओं तथा सुख-भोगों का अनुसरण करके उस मृत्यु के पाश में चले जाते हैं जो मुंह खोले उन्हें लेने को तैयार है। परन्तु धीर पुरुष अमृतत्व को जानकर इस लोक के अनित्य पदार्थों में नित्य (ध्रुव) तत्त्व को पाने की अभीप्सा नहीं करते है।
॥ शब्दावली ॥
वालाः - vālāḥ - the childish ones
पराचः कामान् - parācaḥ kāmān - desire and pleasure
अनुयन्ति - anuyanti - follow after
ते - te - they
विततस्य मॄत्योः - vitatasya mṝtyoḥ - of Death who gapeth wide for them
पाशम् - pāśam - the snare
यन्ति - yanti - walk into
अथ - atha - but
इह - iha - here
धीराः - dhīrāḥ - calm souls
अध्रुवेषु - adhruveṣu - in the things of this world that pass and are not
अमृतत्वम् - amṛtatvam - immortality
ध्रुवम् - dhruvam - permanence
विदित्वा - viditvā - having learned
न प्रार्थयन्ते - na prārthayante - seek not
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know