येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान्। एतेनैव विजानाति किमत्र परिशिष्यते। एतद्वै तत् ॥
॥ लिप्यन्तरणम् ॥
yena rūpaṁ rasaṁ gandhaṁ śabdānsparśāṁśca maithunān | etenaiva vijānāti kimatra pariśiṣyate | etadvai tat ||
॥ अन्वयः ॥
येन एतेन एव रूपं रसं गन्धं शव्दान् स्पर्शान् मैथुनान् च विजानाति। अत्र आत्मनः अविज्ञेयं किम् परिशिष्यते। एतत् वै तत् ॥
॥ अन्वयलिप्यन्तरणम् ॥
yena etena eva rūpaṁ rasaṁ gandhaṁ śavdān sparśān maithunān ca vijānāti| atra ātmanaḥ avijñeyaṁ kim pariśiṣyate| etat vai tat ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ आत्मस्वरूपवर्णनम् ]
पूर्ववल्यां द्वावात्मानौ 'ऋतं पिबन्तौ ' (कठोपनिषद् - ३.१ ) इति प्रस्तुतौ । तत्रैकः प्राप्ता रथी रूपितः । इतरः प्राप्योऽध्वनः पारभूतो निरूपितः । अध्वनः पारभूतस्य स्वरूपं विशिष्यतेऽअधुना - येन इति ।
येन रूपं रसं गन्धं शब्दान्स्पर्शांश्च मैथुनान् ।
एतेनैव विजानाति किमत्र परिशिष्यते ॥ एतद्वै तत् ॥३॥
येन - एतेनैव अन्तरात्मना ज्योतिषां ज्योतिषा वेदिता वेत्ति रूपादीन्, अथ च ग्राम्यानानन्दान् । किमत्र परिशिष्यते - प्रकाशकेऽस्मिन् किमवशिष्यते । प्रकाशकेन अनेनाप्रकाश्यं किमस्तीति यावत् । सर्वस्यार्थस्य प्रकाशकोऽयमेव । यानि च प्रकाशकानि व्यपदिश्यन्ते श्रोत्रादीनि, अनेनैव ज्योतिषा बलेन । अतो वेदिता तांस्तानर्थाननेनैव ज्योतिषा वेत्ति । न चैतं प्रकाशकमनुपजीव्य प्रकाशकं किमपि लोक इति भावः । अन्यत्र च श्रूयते - 'श्रोत्रस्य श्रोत्रं मनसो मन:' (केनोपनिषद् - १.२) इति । एतद्वै तत् - ईदृशं पूर्वप्रस्तुतमात्मतत्त्वं प्राप्यभूतमित्यर्थः ।
केचित्त्वेवं व्याचक्षते । रूपादिशब्दैस्तत्तन्निमित्तकानन्दा लक्ष्यन्ते, सर्वानेतानानन्दान् येनैतेनैवानन्दस्वरूपेणानुभूयमानेनानुभवन्ति एतदनुभवितारः । किमत्र परिशिष्यते - सर्व एव वैषयिकानन्दा आब्रह्मानन्दाद्यदनवधिकानन्दैकदेशभूताः, तस्मिन्नेतस्मिन्ननुभूयमाने को वाऽऽनन्दोऽवशिष्येत, यदितोऽन्यत्प्राप्तव्यं स्यात्, एतद्वै तत् इति ॥३॥
॥ आङ्गल-अर्थः ॥
By the Self one knoweth taste and form and smell, by the Self one knoweth sound and touch and the joy of man with woman; what is there left in this world of which the Self not knoweth? This is the thing thou seekest.
॥ हिन्दी-अर्थः ॥
'' 'अन्तरात्मा' से ही व्यक्ति रूप, रस तथा गन्ध को जानता है, 'अन्तरात्मा' से ही वह शब्द तथा स्पर्श एवं पुरुष का स्त्री के साथ सुख (मैथुन) को जानता है; इस लोक में और क्या है जो उस 'आत्मा' को जानने के लिए शेष हो? यही है 'वह', जिसकी तुम्हें अभीप्सा है।
॥ शब्दावली ॥
येन एतेन - yena etena - by this Self
एव - eva - alone
रूपम् - rūpam - form
रसम् - rasam - taste
गन्धम् - gandham - smell
शबदान् - śabadān - sound
स्पर्शान् - sparśān - touch
मैथुनान् - maithunān - the joy of man with woman
च - ca - and
विजानाति - vijānāti - one knoweth
अत्र - atra - in this world
किम् परिशिष्यते - kim pariśiṣyate - what is there left (of which the Self not knoweth?)
एतत् वै तत् - etat vai tat - this is the thing thou seekest
अविज्ञेयम् - avijñeyam -
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know