पराञ्चिखानि व्यतृणत्स्वयंभूस्तस्मात्पराङ्पश्यति नान्तरात्मन्। कश्चिद्धीरः प्रत्यगात्मानमैषदावृत्तचक्षुरमृतत्वमिच्छन् ॥
॥ लिप्यन्तरणम् ॥
parāñcikhāni vyatṛṇatsvayaṁbhūstasmātparāṅpaśyati nāntarātman | kaściddhīraḥ pratyagātmānamaiṣadāvṛttacakṣuramṛtatvamicchan ||
॥ अन्वयः ॥
स्वयम्भूः खानि पराञ्चि व्यतृणत् तस्मात् पराङ् पस्यति। न अन्तरान्मन्। कश्चित् धीरः अमृतत्वम् इच्छन् आवृत्तचक्षुः प्रत्यगात्मानम् ऐक्षत् ॥
॥ अन्वयलिप्यन्तरणम् ॥
svayambhūḥ khāni parāñci vyatṛṇat tasmāt parāṅ pasyati| na antarānman| kaścit dhīraḥ amṛtatvam icchan āvṛttacakṣuḥ pratyagātmānam aikṣat ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
द्वितीयोऽध्यायः
प्रथमावली (चतुर्थी वल्ली )
[ सन्निहितस्यापि परमात्मनः अज्ञाने जीवस्य इन्द्रियपरतन्त्रता हेतुः ]
अथ प्राप्यतया प्राक् प्रस्तुतस्य विवेचनरूपा इयं वल्ली । तत्र आदौ सह निवसन्तमपि अन्तरात्मानं किमिति अनवगत्य सीदन्ति, सत्यपि करणग्रामे इत्यत्राह खानि इति ।
पराञ्चि खानि व्यतृणत्स्वयंभूस्तस्मात् पराङ्पश्यति नान्तरात्मन् ।
कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ॥१॥
खानि - इन्द्रियाणि । यद्यपि नैकं खम्, सन्ति च दश खानि, किं तैरर्थप्रकाशन- स्वभावैरपीन्द्रियैः, यदिमानि पराचि विधाय व्यतृणत्स्वयम्भूः - परागर्थैकप्रकाशन- स्वभावतया विधाय हिंसितवान् । अर्थप्रकाशकमिति मिषेणानर्थैकमूलं व्यतानीत् । तत् निसृष्टान्यपि निहतान्येव खानि । स्रष्टा स्वयम्भूः - स्वतन्त्रः । न हि पर्यनुयोगार्हः सः । अनुशोकेनैतदुक्तिः । तस्मात्परागर्थैकग्रहणस्वभावकरणभूयिष्ठत्वात् परागर्थान् - रूपादीनेव पश्यति - वेत्त्यहमहमिकया प्रवृत्तैस्तैः करणग्रामैः । अत एव विरोधात् नान्तरात्मानम् । विभक्तिलोपश्छान्दसः । तदेवं स्वरसतः प्रवहति परितः पराक्परे करणपूरे कः प्रत्यक्परो भवेत् । धीरः कश्चित्तु - आत्मानात्मविज्ञानरतिरलौकिकः पुरुषः । अमृतत्त्वम् इच्छन् प्रत्यावृत्त्य पराग्भ्यः तानि प्रत्यगात्मानमीक्षते । तत्सर्वस्यान्तरात्मानं परमात्मानं हृदयतलसन्निहितमपि न सर्वे साक्षात्कुर्वन्तीति भावः ॥१॥
॥ आङ्गल-अर्थः ॥
The Self-born hath set the doors of the body to face outward, therefore the soul of a man gazeth outward and not at the Self within; hardly a wise man here and there desiring immortality turneth his eyes inward and seeth the Self within him.
॥ हिन्दी-अर्थः ॥
'''स्वयंभू' ने देह के द्वारों को बहिर्मुखी बनाया है, इसीलिए मनुष्य की आत्मा बाहर की ओर देखती है, 'अन्तरात्मा' को नहीं ː यत्र-तत्र विरला ही कोई ज्ञानी पुरुष (धीर पुरुष) होता है जो अमृतत्व की इच्छा करते हुए अपनी दृष्टि को अन्तर्मुखी करके 'अन्तरात्मा' को देखता है।
॥ शब्दावली ॥
स्वयम्भूः - svayambhūḥ - the Self-born
खानि - khāni - the doors of the body
पराञ्चि - parāñci - outward
व्यतृणत् - vyatṛṇat - has set
तस्मात् - tasmāt - therefore and
आत्मन् - ātman - the soul of a man
पराङ् - parāṅ - outward
पस्यति - pasyati - gazeth
न अन्तः - na antaḥ - not at the Self within
कश्चित् धीरः - kaścit dhīraḥ - hardly a wise man here and there
अमृतत्वम् - amṛtatvam - immortality
इच्छन् - icchan - desiring
आवृत्तचक्षुः - āvṛttacakṣuḥ - turneth his eyes inward
प्रत्यगात्मानम् - pratyagātmānam - the Self within him
ऐक्षत् - aikṣat - seeth
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know