Ad Code

ये ये कामा दुर्लभा मर्त्यलोके



ये ये कामा दुर्लभा मर्त्यलोके सर्वान्कामांश्छन्दतः प्रार्थयस्व। इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः। आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्शीः ॥

॥ लिप्यन्तरणम् ॥

ye ye kāmā durlabhā martyaloke sarvānkāmāṁśchandataḥ prārthayasva | imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ | ābhirmatprattābhiḥ paricārayasva naciketo maraṇaṁ mā'nuprākśīḥ ||

॥ अन्वयः ॥

ये ये कामाः मर्त्यलोके दुर्लभः तान् सर्वान् कामान् छन्दतः प्रार्तयस्व। इमं सरथाः सतूर्याः रामाः ईदृशाः मनुष्यैः नहि लम्भनीयाः मत्प्रत्तभिः अभिः परिचारयस्व। नचिकेतः मरणम् मा अनुप्राक्षिः ॥

॥ अन्वयलिप्यन्तरणम् ॥

ye ye kāmāḥ martyaloke durlabhaḥ ( tān ) sarvān kāmān chandataḥ prārtayasva| imaṁ sarathāḥ satūryāḥ rāmāḥ īdṛśāḥ manuṣyaiḥ nahi lambhanīyāḥ matprattabhiḥ abhiḥ paricārayasva| naciketaḥ maraṇam mā anuprākṣiḥ ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

ये ये कामा दुर्लभा मर्त्यलोके सर्वान् कामान् छन्दतः प्रार्थयस्व । इमा रामाः सरथाः सतूर्या न हीदृशा लम्भनीया मनुष्यैः । आभिर्मत्प्रत्ताभिः परिचारयस्व नचिकेतो मरणं माऽनुप्राक्षीः ॥२५॥

ये ये काम मर्त्यलोके दुर्लभाः तान् सर्वान् यथेच्छं प्रार्थयस्व । दुर्लभमेव तु वरणीयम्, न सुलभमिति, सर्वलोकदुर्लभं मा वृणीष्व । मर्त्यलोके जातस्त्वं मर्त्यदुर्लभं वृणीष्व । मर्त्यदुर्लभाः कामाः बहवः सन्ति इति यावत् । इमाः - दिव्याः, रमयन्ति पुरुषम् इति रामाः अप्सरसः, न केवलं रामाः, दिव्यैः रथैः, दिव्यैः वादित्रैश्च सह गृहाण । ईदृशा: - दिव्याः, मनुष्यैः न लम्भनीया हि मानुषदुर्लभः अयमर्थ इति सुप्रसिद्धमेतत् । तत् आभि: - मया दत्ताभिः परिचारयस्व, आत्मानमिति शेषः । बहवो देहान्तरेणापि या एव कामयमानाः महताप्यायासेन यागादि चरन्ति ता एव अहमहमिकया पादसंवाहिन्यः परिचारिकाः तव अद्यैव भविष्यन्ति । तत् आभिः आत्मानं परिचरस्व, मरणं माऽनुप्राक्षीः - आत्यन्तिकशरीर- विश्लेषवृत्तं मा विचारय ॥२५॥

॥ आङ्गल-अर्थः ॥

ye ye kämäù martyaloke durlabhäù (tän) sarvän kämän chandataù prärthayasva| imäù sarathäù satüryäù rämäù édåçäù manuñyaiù na hi lambhanéyäù | matprattäbhiù äbhiù paricärayasva| naciketaù maraëam mä anupräkñéù ||

॥ हिन्दी-अर्थः ॥

'' जिन-जिन कामनाओं की पूर्ति मर्त्यलोक में दुर्लभ है, उन सभी कामनाओं को तुम सहर्ष माँग लो। देखो! अपने रथों एवं वाद्यो सहित ये मनोहारिणी रमणीयां हैं, मनुष्यों के लिए इस प्रकार की रमणीयां अलभ्य हैं, मैं इन्हें तुम्हें दूँगा। हे नचिकेता! (मेरे द्वारा प्रदत्त)* इन्हें अपनी परिचारिकाओं के रूप में स्वीकार करके इनके साथ सुख सें रहो। किन्तु, मृत्यु के विषय में प्रश्न मत करो।"

॥ शब्दावली ॥

ये ये कामाः - ye ye kāmāḥ - all desires that

मर्त्यलोके - martyaloke - in the world of mortals

दुर्लभः - durlabhaḥ - hard to win

तान् सर्वान् कामान् - tān sarvān kāmān - all those desires

छन्दतः - chandataḥ - at thy pleasure

प्रार्तयस्व - prārtayasva - demand

इमाः - imāḥ - these

सरथाः - sarathāḥ - with chariots

सतूर्याः - satūryāḥ - with bugles

रामाः - rāmāḥ - delectable women

ईदृशाः - īdṛśāḥ - whose like are, these I will give thee;. But of death question not,.”

मनुष्यैः - manuṣyaiḥ - by men

न हि - na hi - not

लम्भनीयाः - lambhanīyāḥ - to be won

मत्प्रत्तभिः - matprattabhiḥ - given by me

अभिः - abhiḥ - with these

परिचारयस्व - paricārayasva - live for thy handmaidens

नचिकेतः - naciketaḥ - O Nachiketas!

मरणम् - maraṇam - of death

मा अनुप्राक्षिः - mā anuprākṣiḥ - question not


एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code