यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय। तथा विद्वान् नामरूपाद् विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥
॥ लिप्यन्तरणम् ॥
yathā nadyaḥ syandamānāḥ samudre'staṁ gacchanti nāmarūpe vihāya | tathā vidvān nāmarūpād vimuktaḥ parātparaṁ puruṣamupaiti divyam ||
॥ अन्वयः ॥
यथा स्यन्दमानाः नद्यः नामरूपे विहाय समुद्रे अस्तं गच्छ्नति तथा विद्वान् नामरूपात् विमुक्तः परात् परं दिव्यं पुरुषम् उपैति ॥
॥ अन्वयलिप्यन्तरणम् ॥
yathā syandamānāḥ nadyaḥ nāmarūpe vihāya samudre astaṁ gacchnati tathā vidvān nāmarūpāt vimuktaḥ parāt paraṁ divyaṁ puruṣam upaiti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ ब्रह्मज्ञानिनः परमपुरुषसाम्यप्राप्तिः ]
एकीभवन्तीत्यनेन विवक्षितमेकीभावं श्रुतिः स्वयं व्याचष्टे - यथेति । अन्यथा ह्यर्थनिर्णयो न भवेत्, अनियतार्थो ह्ययं प्रयोग: । स्थानतो बुद्धित आकारतो वा एकत्वयोगविवक्षयाऽपि भवति तादृशप्रयोगः ।
यथा नद्यः स्यन्दमानाः समुद्रेऽस्तं गच्छन्ति नामरूपे विहाय । तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषमुपैति दिव्यम् ॥८॥
यथा - सायं गोष्ठे गाव एकीभवन्ति, ब्राह्मणा राजकुल एकीभवन्ति, कीटो भ्रमर एकीभवतीति । एवं पृथक्प्रतिपत्त्यविषयत्वविवक्षयापि भवति तथा प्रयोग: । यथा क्षीरे नीरमेकीभूतमिति । नात्र स्वरूपतादात्म्यं गम्यते । न हि नीरस्वरूपं क्षीरतां क्षीरस्वरूपं वा नीरतां कदापि प्राप्नुयात् । न हि वस्तु वस्त्वन्तरतां गच्छेत् । नापि भ्रमराकारयोगः कीटस्येव क्षीराकारयोगो नीरस्य भवति । नितरां विशीर्णा नीरांशाः क्षीरांशेषु प्रविष्टाः केवलम् । आकारयोगश्चेत् हंसेन तयोर्यथावद्विभजनं कथमुपपद्येत । तत् इदं क्षीरम् इदं नीरमिति पृथक्प्रतिपत्त्यनर्हतैवैकीभावः । संश्लेषविशेषनिबन्धनश्चायम् । संश्लेषविशेष एव वात्रैकी भावः । प्रणष्टे घटे घटाकाश आकाश एकीभवति, प्रणष्टे जले प्रतिबिम्ब: सूर्ये एकीभवतीत्यत्र तु पृथक्प्रतिपत्त्यनर्हतैवैकीभावः । न च तत्र स्वरूपैक्यविवक्षा सम्भवति । उपाध्यपगमे घटाकाशो वा प्रतिबिम्बो वा न हि वर्तते । तत् कस्य कस्मिन्नैक्यं तदानीं भवति । घटाकाशमहाकाशयोः स्वरूपैक्यस्योपाधिसमयेऽप्यक्षततयाऽभूततद्भावे विप्रत्ययोऽपि न घटेत । इयान्विशेषः - क्वचित्संश्लेषविशेषात्पृथक्प्रतिपत्त्यनर्हता, इह तु पृथक्प्रतिपत्तेरुपाधिकल्पितत्वात्, वस्तुनि भेदाभावात्, उपाध्यपगमे भवति पृथक्प्रतिपत्त्यनर्हता । तत् एकीभवन्तीति प्रयोगमात्रेण वस्तुनि भेदाभावो न सिध्येत्। तदेवं सन्दिग्धार्थकतया आवश्यकमेवास्य विवेचनम् ।
यथा गङ्गाद्या नद्यः स्यन्दमाना हिमवदादितः प्रविष्टाः समुद्रे गङ्गेति नाम रूपं च गाङ्गं विहायास्तं गच्छन्ति - अदर्शनं यान्ति । विद्वानेवं देवो मनुष्य इत्यादिनाम्नः देवादिरूपाच्च विमुक्त: । परात्परं पुरुषमक्षरनिलयं याति । दृष्टान्तविशेषग्रहणाद्वयाख्यात एकीभावः । कथम् ? इत्थम् । गङ्गाद्या नद्यः स्यन्दमानाः समुद्रसङ्गमतः प्राक्समुपलभ्यन्ते गाङ्गेन यामुनेन वा रूपेण, व्यवह्रियन्ते च नाम्ना गङ्गेति यमुनेति वा । एवमेवायं जीवः संसरन् ब्रह्मसम्पत्तेः प्राक्समुपलभ्यते दैवेन मानुषेण वा येन केनापि रूपेण । समुद्रं प्रविष्टानां तु तासामपगच्छतो नामरूपे, एवमेव विदुषस्तस्य ब्रह्मप्रविष्टस्यापगच्छतो नामरूपे । अन्ततस्ता अदर्शनं यान्ति, पुरेव व्यवहर्तॄणां दर्शनपदं न प्राप्नुवन्ति, अयमपि पुरेव दर्शनपदं नोपयाति । तत्सिद्धमिहैकीभावः पृथक्प्रतिपत्त्यनर्हत्वरूप इति । पृथक्प्रतिपत्त्यनर्हता च नामरूपप्रहाणत इति च ।
ननु - यदि मुक्तस्य ब्रह्मणो भेद:, भवेदेव पृथक्त्वप्रतिपत्तिः स्वस्मिंस्तस्मात्, तत् कथं पृथक्प्रतिपत्त्यनर्हता । मैवम् । पुरा नामरूपसम्बन्धे यादृशी पृथक्प्रतिपत्तिरासीत् देवोऽहं मनुष्योऽहं स्वतन्त्रोऽहमिति, सा प्रतिपत्तिरिदानीं न घटेतैवेत्यक्षतैव पृथक्प्रतिपत्त्यनर्हता । दृष्टान्तेऽपि नद्यो यथा येषां दर्शनपथगाः प्राक्; समुद्रं प्रविष्टास्तु न तथा तेषां दर्शनपथार्हा इत्येव खल्वस्तं गच्छन्तीत्यनेन विवक्षितम्, न हि सर्वथा सर्वस्यादर्शनं यान्तीति, दृश्यन्त एव हि सर्वज्ञेन तेऽप्यपामंशाः ।
ननु - अनेन दृष्टान्तेन नदीनां नामरूपप्रहाणेन सामुद्रस्वभावयोगवत्, ब्रह्मसम्पन्नस्य विदुषो ब्राह्मस्वभावयोगः स्यात् । मैवम् । न हि दृष्टान्तगत: सर्वोऽपि प्रकारो दार्ष्टान्तिके नियतः, न वा विवक्षितः । ‘नामरूपे विहायास्तं गच्छन्ती' त्येव हि श्रूयते । भवति चापहतपाप्मत्वादिना ब्राह्मस्वभावयोगः । वस्तुतो न गाङ्गस्य जलस्य समुद्रप्रवेशमात्रेण सामुद्रस्वभावयोगः, किन्त्वभिभव एव केवलं भूयस्तया सामुद्रांशस्य ॥८॥
॥ आङ्गल-अर्थः ॥
As rivers in their flowing reach their home in the ocean and cast off their names and forms, even so one who knows is delivered from name and form and reaches the Supreme beyond the Most High, even the Divine Person.
॥ हिन्दी-अर्थः ॥
जिस प्रकार प्रवाहित होती हुई नदियां अपने धाम, समुद्र में पहुँच जाती हैं१२ और अपने नाम तथा रूप को छोड़ देती हैं, उसी प्रकार विद्वान नाम तथा रूप से मुक्त होकर 'परात्पर' 'परम दिव्यपुरुष' को प्राप्त हो जाता है।
॥ शब्दावली ॥
यथा - yathā - as
स्यन्दमानाः नद्यः - syandamānāḥ nadyaḥ - rivers in their flowing
नामरूपे विहाय - nāmarūpe vihāya - casting off names and forms
समुद्रे - samudre - in the ocean
अस्तम् गच्छ्नति - astam gacchnati - reach their home
तथा - tathā - even so
विद्वान् - vidvān - one who knows
नामरूपात् विमुक्तः - nāmarūpāt vimuktaḥ - is delivered from name and form
परात् परम् - parāt param - the Supreme beyond the Most High
दिव्यम् पुरुषम् - divyam puruṣam - even the Divine Person
उपैति - upaiti - and reaches
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know