Ad Code

अत्रैष देवः स्वप्ने महिमानमनुभवति।

 


अत्रैष देवः स्वप्ने महिमानमनुभवति। यद् दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पस्यति ॥

लिप्यन्तरणम्

atraiṣa devaḥ svapne mahimānamanubhavati | yad dṛṣṭaṁ dṛṣṭamanupaśyati śrutaṁ śrutamevārthamanuśṛṇoti deśadigantaraiśca pratyanubhūtaṁ punaḥ punaḥ pratyanubhavati dṛṣṭaṁ cādṛṣṭaṁ ca śrutaṁ cāśrutaṁ cānubhūtaṁ cānanubhūtaṁ ca saccāsacca sarvaṁ paśyati sarvaḥ pasyati ||

अन्वयः

एषः देवः अत्र स्वप्ने महिमानं अनुभवति यत् दृष्टं दृष्टं अनुपश्यति श्रुतं श्रुतम् एव अर्थम् अनुशृणोति देशादिगन्तरैः च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति दृष्टं च अदृष्टं श्रुतम् अश्रुतं अनुभूतं अननुभूतं च सत् असत् सर्वं पश्यति स्वयमपि सर्वः सन् पश्यति ॥

अन्वयलिप्यन्तरणम्

eṣaḥ devaḥ atra svapne mahimānaṁ anubhavati yat dṛṣṭaṁ dṛṣṭaṁ anupaśyati śrutaṁ śrutam eva artham anuśṛṇoti deśādigantaraiḥ ca pratyanubhūtaṁ punaḥ punaḥ pratyanubhavati dṛṣṭaṁ ca adṛṣṭaṁ śrutam aśrutaṁ anubhūtaṁ ananubhūtaṁ ca sat asat sarvaṁ paśyati ( svayamapi ) sarvaḥ ( san ) paśyati ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम्

कतर एष देवः स्वप्नान्पश्यतीत्यस्योत्तरमाह -

अत्रैष देवः स्वप्ने महिमानमनुभवति ।

यद्दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति

दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति सर्वः पश्यति ॥५॥

अत्र - इन्द्रियोपरतितः पश्चात्, सुषुप्तेः प्राक्, अस्मिन्नवसरे । एष देवः - जीव: स्वप्ने महिमानं रथगजादिरूपमनुभवति । यद्वा - अत्र - अस्मिन्नेव शरीरे वर्तमान एष एव देवः स्वप्ने महिमानमनुभवति । उपरतेष्वखिलेषु करणेषु यः किमपि साक्षात्करोति तेन हि देवेन भाव्यम् । स्वत एव द्योतनगुणेन भाव्यम् । स क इति पृष्टे न कश्चिदपूर्वस्तादृशः, य एव शरीरे वर्तमानः क्षेत्रज्ञो जाग्रद्दशायां करणसापेक्षः साक्षात्करोति स एव तदानीं करणनिरपेक्षः स्वयंज्योतिः स्वाप्नानर्थाननुभवतीति भावः । श्रूयते च बृहदारण्यके - ' अत्रायं पुरुष: स्वयंज्योतिर्भवति' (बृहदारण्यकोपनिषद् -  ६.३.९) इति । कं महिमानमनुभवति ? तं प्रपञ्चयति यद्दृष्टमित्यादिना । सर्वः । सर्वशरीरकः सन्नित्यर्थः । स्वप्ने कदाचिदात्मानमत्यन्तविलक्षणमन्यान्याकारमनुभवति, तत् स्वाप्नसृष्टतत्तच्छरीरकः स्वात्मानमनुभवतीति भावः । परे देवे मनस्येकीभवतीति पूर्वमन्त्रे निर्दिष्टं मन एव वा एष देव इति परामृश्यते । यद्यपि मनसः करणत्वमात्रं न द्रष्टृत्वं, तत्त्वात्मन एव, तथापि स्वातन्त्र्यविवक्षया तदुपपत्तिः, स्वातन्त्र्यं च बाह्यचक्षुरादिनिरपेक्षं दर्शनाद्युपकरणत्वम्, तच्च तदानीमस्ति । सर्वः पश्यति सर्वप्रकारः सन्ननुभवति । असत्यपि चक्षुषि, असत्यपि श्रवणे, असत्यपि प्राणे, स्वयमेव तत्तत्प्रकारो भूत्वा तांस्तानर्थाननुभवतीत्याशयः ।

ननु - गौणः पक्षोऽयम्, यत् सुप्रसिद्धे आत्मनि द्रष्टरि सति करणे तद्वर्णनम् । नैष दोषः । विवक्षायां सत्यां स एव पक्षो विशिष्यते । सुप्रसिद्धे च द्रष्टरि कथं वा प्रश्नः 'कतर एष देवः स्वप्नान् पश्यती 'ति प्रष्टा हि न मन्दः, जानात्येव करणमिन्द्रियं ततोऽन्यं च द्रष्टारम्, तथापि पृच्छतो ह्ययमाशयः । यदि प्रसुप्तानि चक्षुरादीनि बाह्यानि आन्तरस्य च तदसामर्थ्यात् स्वाप्नार्थप्रकाशकं किमिति । अत एव प्रश्ने कतरशब्दस्वारस्यमपि । द्वयोरेकस्मिन् जिज्ञासिते हि कतरशब्दः प्रवर्तते । जाग्रद्दशायां चक्षुरादिद्वारैव मनसो रूपादिप्रकाशकत्वनियमे सत्यपि स्वापदशायां विना तद्द्वारं स्वाप्नरूपादिप्रकाशनसामर्थ्यमस्ति तद्धि रूपादि न बाह्यसजातीयं किन्त्वन्यादृशमेव। बाह्येऽर्थ एव तु तन्नियम इत्युत्तरितं भवति ॥५॥

आङ्गल-अर्थः ॥

“Now the Mind in dream revelleth in the glory of his imaginings. All that it hath seen it seemeth to see over again, and of all that it hath heard it repeateth the hearing; yea, all that it hath felt and thought and known in many lands and in various regions, these it liveth over again in its dreaming. What it hath seen and what it hath not seen, what it hath heard and what it hath not heard, what it hath known and what it hath not known, what is and what is not, all, all it seeth; for the Mind is the Universe.

॥ हिन्दी-अर्थः ॥

''और, यह 'मन' स्वप्न में अपनी कल्पनाओं की महिमाओं में आनन्द अनुभव करता है। जो कुछ इसने देखा था मानों उसी को पुनः देखता है, और जो कुछ इसने सुना था, उसी को पुनः सुनता है; वस्तुतः भिन्न-भिन्न स्थानों एवं विभिन्न क्षेत्रों में इसने जो कुछ साक्षात् अनुभव किया था, सोचा था तथा जाना था, उस सबको अपनी स्वप्नावस्था में यह पुनः जीता है। जो कुछ इसने देखा था तथा जो कुछ नहीं देखा था, जो इसने सुना था तथा जो इसने नहीं सुना था, जो इसने जाना था एवं जो इसने नहीं जाना, जो है तथा जो सब नहीं है, सब, यह सब कुछ देखता है, कारण 'मन' ही 'विश्व' है।

॥ शब्दावली ॥

एषः देवः - eṣaḥ devaḥ - now this god, the Mind

अत्र स्वप्ने - atra svapne - in dream

महिमानम् अनुभवति - mahimānam anubhavati - revelleth in the glory of his imaginings

यत् दृष्टम् दृष्टम् - yat dṛṣṭam dṛṣṭam - all that it hath seen

अनुपश्यति - anupaśyati - it seemeth to see over again

श्रुतम् श्रुतम् एव अर्थम् - śrutam śrutam eva artham - of all that it hath heard

अनुशृणोति - anuśṛṇoti - it repeateth the hearing

देशादिगन्तरैः च - deśādigantaraiḥ ca - in many lands and in various regions

प्रत्यनुभूतम् - pratyanubhūtam - all that it hath felt and thought and known

पुनः पुनः - punaḥ punaḥ - over again

प्रत्यनुभवति - pratyanubhavati - these it liveth (in its dreaming)

दृष्टम् अदृष्टम् च - dṛṣṭam adṛṣṭam ca - what it hath seen and what it hath not seen

श्रुतम् अश्रुतम् - śrutam aśrutam - what it hath heard and what it hath not heard

अनुभूतम् अननुभूतम् च - anubhūtam ananubhūtam ca - what it hath known and what it hath not known

सत् असत् च -सत् असत् च - sat asat ca - what is and what is not

सर्वम् पश्यति - sarvam paśyati - all, all it seeth

सर्वःसर्वः - sarvaḥ - for the Mind is the Universe

पश्यति पश्यति - paśyati - all it seeth

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code