यच्छेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि। ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि ॥
॥ लिप्यन्तरणम् ॥
yacchedvāṅmanasī prājñastadyacchejjñāna ātmani | jñānamātmani mahati niyacchettadyacchecchānta ātmani ||
॥ अन्वयः ॥
प्राज्ञः वाक् मनसी यच्चेत् तत् ज्ञाने आत्मनि यच्छेत् ज्ञानं महति आत्मनि नियच्छेत् तत् शान्ते आत्मनि यच्छेत् ॥
॥ अन्वयलिप्यन्तरणम् ॥
prājñaḥ vāk manasī yaccet tat jñāne ātmani yacchet jñānaṁ mahati ātmani niyacchet tat śānte ātmani yacchet ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ उपासनौपयिकवागादिनियमनप्रकार: ]
तदेवमिन्द्रियवशीकरणं विना परमात्मनो दुरधिगमत्वम्, वशीकृतेन्द्रियेण तु सुगमत्वम्, वशीकार्येषु च प्रधानानि उक्त्वा, अथ वशीकारप्रकारमाह -
यच्छेद्वाड्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि ।
ज्ञानमात्मनि महति नियच्छेत् तद्यच्छेच्छान्त आत्मनि ॥१३॥
प्राज्ञः - त्याज्योपादेयविभागवित् । वाचं मनसि नियच्छेत् - द्वितीयाया लोपश्छान्दसः, दीर्घश्च तथा । वाचमिति इन्द्रियाणामुपलक्षकम् ।
'इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते ।
तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ॥' (भगवद्गीता - २.६७)
तदिन्द्रियाण्यर्थेभ्य उपसंहृत्य, मनसि नियच्छेत् । प्राज्ञेन प्रज्ञारक्षणाय कर्तव्यमेतत् । मनसि नियमनं चैतेषामात्मोन्मुखमनोनुगुणतापादनम्, अविक्षेपतापादनमिति यावत् । विषये सम्बध्यमानानि हीन्द्रियाण्यात्मन्युन्मुखमपि मनः सहसा व्याक्षिपेयुः । एतेन हयाः प्रग्रहायत्ता: क्रियन्तामित्युक्तं भवति । तन्मन आत्मनि ज्ञाने - आत्मगते ज्ञाने, नियच्छेत् । ज्ञानमत्र बुद्धिः । सा चार्थेषु हेयताध्यवसायरूपा बोध्या । मनसस्तस्यां नियमनं नाम तदनुगुणप्रवृत्तितापादनम् । ज्ञानमात्मनि महति नियच्छेत् रथित्वेन रूपित आत्मा महानिति विशिष्यते, यदस्योपकरणान्यन्यानि । अध्यवसायं च आत्मस्वरूपे नियच्छेत् । अध्यवसायस्यात्मनि नियमनमात्मैकावलम्बनतापादनम् । आत्मनोऽन्यदनुपादेयतया आत्मानं चोपादेयतया अध्यवस्येदिति समुदिताशयः । तं च आत्मानं शान्त आत्मनि परमपुरुषे नियच्छेत् । आत्मनः परमपुरुषे नियमनं नाम तदेकाश्रयत्वापादनम् । शरणागतिरिति यावत् । परमपुरुषं शरणं गतस्य अध्यवसायप्रभृति सर्वमनुकूलं स्यात्, अनुकूलेषु चैतेष्वध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् (कठोपनिषद् - ३.९) इति भावः ॥१३॥
॥ आङ्गल-अर्थः ॥
Let the wise man restrain speech in his mind and mind in his self of knowledge, and knowledge in the Great Self, and that again let him restrain in the Self that is at peace.
॥ हिन्दी-अर्थः ॥
''प्रज्ञावान् व्यक्ति अपनी वाणी को मन में नियन्त्रित रखे, उस मन को ज्ञानस्वरूप आत्मा में नियन्त्रित रखे तथा ज्ञान को 'महान् आत्मा' में नियन्त्रित रखे और उसे पुनः उस 'आत्मा' में नियन्त्रित रखे जो शान्त-स्वरूप है।
॥ शब्दावली ॥
प्राज्ञः - prājñaḥ - the wise man
वाक् - vāk - speech
मनसी - manasī - speech
यच्चेत् - yaccet - let restrain
तत् - tat - that mind
ज्ञाने आत्मनि - jñāne ātmani - in his self of knowledge
यच्छेत् - yacchet - let restrain
ज्ञानम् - jñānam - knowledge
महति आत्मनि - mahati ātmani - in the Great Self
नियच्छेत् - niyacchet - let restrain
तत् - tat - that Great Self
शान्ते आत्मनि - śānte ātmani - in the Self that is at peace
यच्छेत् - yacchet - let restrain
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know