उत्तिष्ठत जाग्रत प्राप्य वरान्निबोधत। क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥
॥ लिप्यन्तरणम् ॥
uttiṣṭhata jāgrata prāpya varānnibodhata | kṣurasya dhārā niśitā duratyayā durgaṁ pathastatkavayo vadanti ||
॥ अन्वयः ॥
उतिष्ठत जग्रत वरान् प्राप्य तत् निबोधत। निशिता क्षुरस्य धारा दुरत्यया दुर्गं तत् पथः इति कवयः वदन्ति ॥
॥ अन्वयलिप्यन्तरणम् ॥
utiṣṭhata jagrata varān prāpya ( tat ) nibodhata| niśitā kṣurasya dhārā duratyayā durgaṁ tat pathaḥ ( iti ) kavayaḥ vadanti ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ तत्त्वज्ञानाय प्रोत्साहनम् ]
अहो क्षेत्रिणः स्वक्षेत्रनिहितमपि हिरण्यनिधिमविन्दन्तोऽवसीदन्तीत्यनुतपन्ननुकम्पया सर्वान् संबोधयति - उत्तिष्ठतेति ।
उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत ।
क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति ॥१४॥
इतः परं वा जाग्रताज्ञाननिद्रायाः, कालो ह्यसंख्यातो गतः, उत्तिष्ठत - विषयतल्पत:, आत्माभिमुखा भवतेत्येतत् । वरान्प्राप्य - आत्मविदामग्रेसरानाचार्यानुपगम्य, निबोध यज्ज्ञातव्यम् आत्मतत्त्वम् । यद्वा - शरणागतिप्रसन्नात्परमात्मनो वरान्लब्ध्वा, अनुग्रहं लब्ध्वेति यावत् । 'यमेवैष वृणुते' (कठोपनिषद् - २.२३) इति च प्रकृतम् । वरान्प्राप्येति किं विशिष्यत ? इत्यत्राह - दुर्गमिति । पथ: - पन्थानम्, छान्दसः प्रयोगः, आचार्यप्रसादादृते तत् - आत्मतत्त्वं दुरधिगमम् । कवयः तत्त्वविदः, वदन्ति । कुत एवम् ? निशिता क्षुरस्य धारा दुरत्यया हि अशिक्षितस्यानवहितस्यासिधारासंचरणमिवात्मबलेन यतमानस्यानर्थः स्यादिति भावः॥१४॥
॥ आङ्गल-अर्थः ॥
Arise, awake, find out the great ones and learn of them; for sharp as a razor's edge, hard to traverse, difficult of going is that path, say the sages.
॥ हिन्दी-अर्थः ॥
''उठो, जागो, वरिष्ठ पुरुषों को पाकर उनसे बोध प्राप्त करो। छुरी की तीक्ष्णा धार पर चलकर उसे पार करने के समान दुर्गम है यह पथ-ऐसा ऋषिगण कहते हैं।
॥ शब्दावली ॥
उतिष्ठत - utiṣṭhata - arise
जग्रत - jagrata - awake
वरान् - varān - the great ones
प्राप्य - prāpya - find out
निबोधत - nibodhata - learn of them
निशिता - niśitā - sharp
क्षुरस्य धारा - kṣurasya dhārā - a razor's edge
दुरत्यया - duratyayā - hard to traverse
दुर्गम् - durgam - difficult of going
तत् पथः - tat pathaḥ - is that path
कवयः - kavayaḥ - the sages
वदन्ति - vadanti - say
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know