Ad Code

एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते




एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते। दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥

॥ लिप्यन्तरणम् ॥
eṣa sarveṣu bhūteṣu gūḍho''tmā na prakāśate | dṛśyate tvagryayā buddhyā sūkṣmayā sūkṣmadarśibhiḥ ||
॥ अन्वयः ॥
सर्वेषु भूतेसु गूढः एषः आत्मा न प्रकासते। सुक्ष्मदर्शिभिः अग्र्यया सुक्ष्मया बुद्ध्या एषः आत्मा तु दॄश्यते ॥
॥ अन्वयलिप्यन्तरणम् ॥
sarveṣu bhūtesu gūḍhaḥ eṣaḥ ātmā na prakāsate| sukṣmadarśibhiḥ agryayā sukṣmayā buddhyā ( eṣaḥ ātmā ) tu dṝśyate ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ परमात्मा सूक्ष्मज्ञानवता दृश्यः ]

एष सर्वेषु भूतेषु गूढोऽत्मा न प्रकाशते ।

दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥१२॥

एष आत्मा - या काष्ठा या परा गतिः, एष नातिदूरे, किन्तु सन्निहितः सर्वेषु, तथाऽपि न प्रकाशते, सर्वेषां गूढो ह्ययम् । नायं प्रकाशः सर्वस्य योगमायासमावृतः । दैव्या गुणमय्या मोहिता नाभिजानन्ति जना एनमिति यावत् । गूढोऽपि एष दृश्यते तु सूक्ष्मदर्शिभिः - सूक्ष्मवस्तुदर्शनशीलैः । यत एषां बुद्धिः अग्र्या - एकाग्रा । अत एव सूक्ष्मा - सूक्ष्मवस्तुविवेचनसमर्था च । येषां बुद्धिर्न बाह्येन्द्रियार्थेषु स्थूलेषु, सर्वतः सूक्ष्मतमे परमात्मनि निश्चलतां प्राप्ता तैस्तथाविधया बुद्ध्या तदात्मतत्त्वं साक्षात्क्रियत इति यावत् ॥१२॥

॥ आङ्गल-अर्थः ॥
The secret Self in all existences does not manifest Himself to the vision: yet is He seen by the seers of the subtle by a subtle and perfect understanding.
॥ हिन्दी-अर्थः ॥
''समस्त भूतों में गूढ 'आत्म तत्त्व' 'स्वयं' को दृष्टिगोचर नहीं बनाताː तो भी 'वह' सूक्ष्मदर्शी द्रष्टाओं के द्वारा सूक्ष्म एवं कुशाग्र बुद्धि से देखा जाता है।
॥ शब्दावली ॥
सर्वेषु भूतेसु - sarveṣu bhūtesu - in all existences
गूढः - gūḍhaḥ - secret
एषः आत्मा - eṣaḥ ātmā - this Self
न प्रकासते - na prakāsate - does not manifest Himself to the vision
सुक्ष्मदर्शिभिः - sukṣmadarśibhiḥ - by the seers of the subtle
सुक्ष्मया अग्र्यया बुद्ध्या - sukṣmayā agryayā buddhyā - by a subtle and perfect understanding
तु - tu - yet
दॄश्यते - dṝśyate - is He seen
॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code