इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्। आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥
॥ लिप्यन्तरणम् ॥
indriyāṇi hayānāhurviṣayāṁsteṣu gocarān | ātmendriyamanoyuktaṁ bhoktetyāhurmanīṣiṇaḥ ||
॥ अन्वयः ॥
इन्द्रियाणि हयान् आहुः विषयान् तेषु गोचरान् आत्मेन्द्रियमनोयुक्तं तम् आत्मनं भोक्ता इति मनीषिणः आहुः ॥
॥ अन्वयलिप्यन्तरणम् ॥
indriyāṇi hayān āhuḥ viṣayān teṣu gocarān ātmendriyamanoyuktaṁ ( tam ātmanaṁ ) bhoktā iti manīṣiṇaḥ āhuḥ ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ सुखदुःखभोक्ता जीव: ]
इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् ।
आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥४॥
इन्द्रियैर्हि व्यापृतैः इतस्ततः समाकृष्यते रथोऽयम् । रथिक्श्चानेन समेति तांस्तान्विषयान् । विषया: - शब्दादय:, त एव देशाः । सत्येव देहादिपरिकरयोगे आत्मनो भोक्तृता, न त्वन्यथा । अतो देहादीनां रथादितयाऽऽत्मनो रथितया च निरूपणं युक्तमिति व्यञ्जयन्नाह - आत्मेति । आत्मा देहः । एतद्योग एव भोक्तृतेत्यर्थः । ज्ञातुरपि अस्य करणकलेवरयोगाभावे न हि भोगसामर्थ्यमित्याशयः ॥४॥
॥ आङ्गल-अर्थः ॥
The senses they speak of as the steeds and the objects of sense as the paths in which they move; and One yoked with Self and the mind and the senses is the enjoyer, say the thinkers.
॥ हिन्दी-अर्थः ॥
''मनीषीगण इन्द्रियों को अश्व तथा इन्द्रियगोचर विषयों को उनके विचरण के मार्ग कहते हैं। तथा 'वह' जो 'आत्मा', मन तथा इन्द्रियों से युक्त है, वह भोक्ता है।
॥ शब्दावली ॥
इन्द्रियाणि - indriyāṇi - the senses
हयान् - hayān - as the steeds
आहुः - āhuḥ - they speak of
विषयान् - viṣayān - the objects of sense
तेषु गोचरान् - teṣu gocarān - as the paths in which they move
आत्मेन्द्रियमनोयुक्तम् - ātmendriyamanoyuktam - one yoked with Self and the mind and the senses
भोक्ता - bhoktā - the enjoyer
इति - iti - thus
मनीषिणः - manīṣiṇaḥ - the thinkers
आहुः - āhuḥ - say
॥ अथ उपनिषद् ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know