Ad Code

स्वप्नान्तं जागरितान्तं चोभौ



स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति। महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥

॥ लिप्यन्तरणम् ॥

svapnāntaṁ jāgaritāntaṁ cobhau yenānupaśyati | mahāntaṁ vibhumātmānaṁ matvā dhīro na śocati ||

॥ अन्वयः ॥

स्वप्नान्तं जागरितान्तं च उभौ येन अनुपश्यति तं महान्तं विभुम् आत्मानं मत्वा धीरः न शोचति ॥

॥ अन्वयलिप्यन्तरणम् ॥

svapnāntaṁ jāgaritāntaṁ ca ubhau yena anupaśyati ( taṁ ) mahāntaṁ vibhum ātmānaṁ matvā dhīraḥ na śocati ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ जागरितस्वप्नान्तवेत्ता परमात्मा ]

पुनस्तमेव विशिनष्टि - स्वप्न इति ।

स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति ।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति ॥४॥

येनैव ज्योतिषां ज्योतिषा सर्वात्मभूतेन परमात्मना लोकोऽयं स्वानमर्थं जाग्रदर्थं चानुपश्यति, तं सर्वान्तरं सर्वव्यापिनम्, आत्मानं मत्त्वा धीरो न शोचति । इन्द्रियद्वारा भवतोऽपि लौकिकार्थविज्ञानस्य सर्वस्य परमात्मैव साधनमित्युक्तं भवत्याभ्याम् ॥४॥

॥ आङ्गल-अर्थः ॥

The calm soul having comprehended the great Lord, the omnipresent Self by whom one beholdeth both to the end of dream and to the end of waking, ceaseth from grieving.

॥ हिन्दी-अर्थः ॥

''धीर पुरुष उस 'महान्' विभु-व्यापी 'परमात्मा' को जानकर जिसके द्वारा व्यक्ति स्वप्न तथा जाग्रत् दोनों अवस्थाओं के अन्त को देखता है, शोक से विरत हो जाता है।

॥ शब्दावली ॥

स्वप्नान्तम् - svapnāntam - to the end of dream

जागरितान्तम् - jāgaritāntam - to the end of waking

च - ca - and

उभौ - ubhau - both

येन - yena - by whom

अनुपश्यति - anupaśyati - one beholdeth

महान्तम् - mahāntam - the great Lord

विभुम् - vibhum - the omnipresent

आत्मानम् - ātmānam - Self

मत्वा - matvā - having comprehended

धीरः - dhīraḥ - the calm soul

न शोचति - na śocati - ceaseth from grieving

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code