Ad Code

अग्ने नय सुपथा राये अस्मान्‌ Explanation



अग्ने नय सुपथा राये अस्मान्‌ विश्वानि देव वयुनानि विद्वान्‌। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम‍उक्तिं विधेम ॥

॥ लिप्यन्तरणम् ॥

agne naya supathā rāye asmān viśvāni deva vayunāni vidvān | yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṁ te namauktiṁ vidhema ||

॥ अन्वयः ॥

अग्ने अस्मान् राये सुपथा नय। देव विश्वानि वयुनानि विद्वान् अस्मत् जुहुराणाम् एनः युयोधि ते भूयिष्ठां नम विधेम ॥

॥ अन्वयलिप्यन्तरणम् ॥

agne asmān rāye supathā naya| deva viśvāni vayunāni vidvān asmat juhurāṇām enaḥ yuyodhi te bhūyiṣṭhāṁ nama vidhema ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

प्रकृतिविविक्तात्मानुस्मरणपूर्वकं भगवदनुस्मरणमुक्तम् । अथ गतिचिन्तनमुच्यते प्रार्थनामुखेन - अग्न इति ।

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्ति विधेम ॥१८॥

अग्ने - अग्रं नयतीत्यग्निः, ऊर्ध्वगतिप्रापक, आश्रितानूर्ध्वं नयति हि भगवान्, सुपथा - शोभनेन मार्गेण अर्चिरादिमार्गेण, राये मुक्तै श्वर्याय, अस्मान्नय - त्वमसि समाश्रितानामुद्धर्ता, तव हार्दस्यानुग्रहेण शताधिकया नाड्या निर्गत्याचिरादिना ब्रह्मलोकमभिसंभवानीति भावः । तदर्थं मम प्रारब्धव्यतिरिक्तं सञ्चितमखिलं प्रामादिकं चोत्तरमेन:, अस्मत् - अस्मत्सकाशात्, युयोधि - विश्लेषय, पुण्यमपि मुमुक्ष्वपेक्षयैनश्शब्देन निर्दिश्यते । तच्चैनो जुहुराणम् - कुटिलम्, दुर्मोचमिति यावत् । तत्कथमहं मोचयितुं शक्त इति मा वोचः, हे देव ! त्वं विश्वानि वयुनानि विद्वान् सर्वज्ञोऽसीति यावत् । पापपुण्ययोश्शत्रुमित्रेष्ववकाशदानेन मत्तो वियोजय, त्वं हि सर्वं जानासीति भावः । एतेन “सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्यामि"त्येतदनुस्मृतं भवति ।

ननु सर्वज्ञेनापि मया नान्यदीयमन्यत्र योज्यते निर्निमित्तम्, तदस्ति किञ्चिदुपायानुष्ठानं त्वयीत्यत्राह - भूयिष्ठां ते नम उक्ति विधेम अद्य तु वयं मुमूर्षवश्शिथिलकरणा:, यावदासीन्नः करणशक्तिस्तावत्त्वनुष्ठितं यथाविहितमुपासनम्, तदेव स्मारितश्चासि कृतं स्मरेति, अधुनापि वाग्व्यापारसाध्यं नम उक्तिम् - नमश्शब्दोच्चारणम् विधेम - विदध्महे, एतावत्यद्य नश्शक्तिरिति भावः । विदध्मह इत्यर्थे विधेमेति व्यत्ययोऽयं छान्दसः ।

आत्महविषः परमात्मनि समर्पणरूपप्रपत्तिः

यद्वा मन्त्रद्वयमिदम् उपासनाऽशक्तस्य शरणागतिं प्रदर्शयति शरणागतिर्ह्यात्मसमर्पणमोमिति निर्देशाद्व्यज्यते, "ब्रह्मणे त्वामहस ओ" मिति प्रणवेन ह्यात्महविस्समर्पणं श्रूयते; समर्प्यमाणहविषस्संस्कारो यथा प्रोक्षणादिकं तथाऽत्रात्महविषस्संस्कारः प्रकृतिविविक्ततया यथाऽवस्थितवेषेण ज्ञानम्, सोऽयं संस्कारः प्रथमं क्रियते 'वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ' इति । एवं संस्कृतमात्मानमोमिति ब्रह्माग्नौ प्रक्षिप्य प्रार्थनीयं प्रार्थयते - क्रतो स्मरेति । शक्तास्तु केचित्स्वयं धीराः योगधारणया त्वां धारयन्तो मनस्यव्यग्रे नियतकालमविच्छिन्नमनुदिनमनुस्मरन्ति, स्मरन्ति चान्तकालेऽपि, अहं पुनरसमर्थस्तथा स्मर्तुम्, त्वमेव समये स्मर । सर्वमुक्तिप्रसङ्गपरिहाराय व्याजमात्रं वा यद्यपेक्षसे तर्हि कृतं स्मर यत्किञ्चिदानुकूल्यसङ्कल्पादिकमधुना कृतं तदेव स्मर, अथ चायमनन्यसामान्यो मादृशाऽकिञ्चनजनसमुचितस्त्वमेवोपायभूतो मे भवेति प्रार्थनामतिरूपोपायानुष्ठानप्रकारो जागर्ति, तदहं प्रार्थये भवन्तम् । अग्ने नय सुपथा रायेऽस्मान् - वयं मार्गमपि न जानीमः, नाप्युपायान्तरम् त्वामेकमेव जानीमः, तत्त्वमेवोपायो भूत्वा यो मार्गश्शोभनस्तेन नय । अहमज्ञः, किं हितं जानीयाम् त्वमसि विश्वानि देव वयुनानि विद्वान् - त्वमसि देवः, यस्सृष्टिस्थितिसंहरणैः क्रीडसि, तस्य ते जुहुराणमेनो मदीयमिति कियन्मात्रम् । मत्तस्सकाशाद्वियोजय तत् । वियोज्य क्व नेयमिति तु नाहं जानामि । नाशय वाऽन्यं प्रापय वा । ततस्त्वं किं फलमभिलषितं पृच्छसि ?, नास्माकं किञ्चित्फलमाकाङ्क्षितमन्यत्, यतो वयं स्वतो दासास्तव, तत्, तदानीमपि दास्यानुरूपां तुभ्यं नम उक्तिमेव विधेमहि - दासवृत्तिमेव प्रार्थयामहे इति भावः । विशेषस्तु संप्रदायगम्यः ॥१८॥

अत्रायमुपनिषदर्थसङ्ग्रहः

ईशाभिव्याप्यमेतज्जगदखिलमिह त्यक्तसङ्गो मुमुक्षुर्भुञ्जीत स्वानुरूपं न धनमभिलषेत्कर्मकुर्यादसङ्गः ।

योऽनात्मज्ञस्स सक्तो निपतति निरये तन्मुमुक्षोरसङ्गं यत्प्रोक्तं चित्तशुद्ध्यै प्रभवति ननु तत्कर्म बन्धाय न स्यात् ॥१॥

विज्ञेयो निश्चलत्वप्रभृतिगुणगणैर्व्याप्यतोऽस्माद्विधर्मा विश्वव्यापी स ईशः श्रितजनसुगमो दुर्लभश्चेतरेषाम् । 

तस्मिन्सर्वाणि भूतान्यपि च तमखिलेष्वेषु पश्यन्जुगुप्सां कुर्यान्न क्वापि शोकादिकमपि न ततस्स्यादिहैकात्म्यदृष्टया ॥२॥

एवम्भूतात्मदृष्टिः प्रविशति परितश्चेतसा ब्रह्म शुद्धम् याथातथ्येन सोऽर्थान्कलयति मनसा शास्त्रदृष्टांश्चिराय । सत्यप्यङ्गाङ्गिभावे श्रयति य इह धीकर्मणोरेकमेकम् सोऽनर्थस्यास्पदं स्याच्छ्रयति तदुभयं यस्तु तस्यामृतं स्यात् ॥३॥

एषा दैवी हि माया सपदि गुणमयी दुर्निवारा तदेनां देवं तं तु प्रपद्य प्रशममुपनयेद्दिव्यरूपं तदीयम् ।

दुष्प्रेक्षं तेजसाऽपि प्रभवति कृपया वीक्षितुं तस्य कश्चित् तस्मिन्न्यस्यात्मभारं व्रजति किमपि शं तत्पथा शोभनेन ॥४॥

सारार्थसंग्रहः

येन व्याप्तं समस्तं जगदिदमपि यत्प्रीणनं कर्म सर्वं योऽनन्ताश्चर्यशक्तिः शुभगुणनिलयो यत्र सर्वात्मदृष्ट्या । 

शोकादेर्नावकाशः प्रविशति परमं धाम यस्य प्रपत्त्या स्वामी नारायणोऽयं स जयति गदितो वाजिनां संहितान्ते ॥५॥

॥ इति श्रीमद्भगवत्स्वामिनारायणचरणकमलपरिचर्य्यापरायणसकलतन्त्रपारावारपारीणपरमहंसवर्य्ययोगिराज श्रीगोपालानन्दस्वामिविरचितम् ईशोपनिषदः स्वामिनारायणमूलभाष्यं समाप्तम् ॥

॥ आङ्गल-अर्थः ॥

O god Agni, knowing all things that are manifested, lead us by the good path to the felicity; remove from us the devious attraction of sin. To thee completest speech of submission we would dispose.

॥ हिन्दी-अर्थः ॥

सब व्यक्त वस्तुओं के जानने वाले हे अग्निदेव! हमे सुपथ से, उत्तम मार्ग से आनन्द की ओर ले चल; पाप का कुटिलतापूर्ण आकर्षण हमसे हटा दे, दूर कर दे। तेरे प्रति अन्तर्नमन (समर्पण) की सर्वाङ्गपूर्ण वाणी (स्तोत्र) हम निवेदित करें।

॥ शब्दावली ॥

देव अग्ने - deva agne - O god Agni!

विश्वानि वयुनानि - viśvāni vayunāni - all things that are manifested

विद्वान् - vidvān - knowing

अस्मान् - asmān - us

राये - rāye - to the felicity

सुपथा - supathā - by the good path

नय - naya - lead

अस्मत् - asmat - from us

जुहुराणाम् एनः - juhurāṇām enaḥ - the devious attraction of sin

युयोधि - yuyodhi - remove

ते - te - to thee

भूयिष्ठाम् - bhūyiṣṭhām - completest

नम उक्तिम् - nama uktim - speech of submission

विधेम - vidhema - we would dispose

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Ad Code