Editors Choice

जीवन का उद्देश्य

दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः II1/1/2 न्यायदर्शन अर्थ : तत्वज्ञान से मिथ्या ज्ञान का नाश हो जाता है और मिथ्या ज्ञान के नाश से राग द्वेषादि दोषों का नाश हो जाता है, दोषों के नाश से प्रवृत्ति का नाश हो जाता है। प्रवृत्ति के नाश होने से कर्म बन्द हो जाते हैं। कर्म के न होने से प्रारम्भ का बनना बन्द हो जाता है, प्रारम्भ के न होने से जन्म-मरण नहीं होते और जन्म मरण ही न हुए तो दुःख-सुख किस प्रकार हो सकता है। क्योंकि दुःख तब ही तक रह सकता है जब तक मन है। और मन में जब तक राग-द्वेष रहते हैं तब तक ही सम्पूर्ण काम चलते रहते हैं। क्योंकि जिन अवस्थाओं में मन हीन विद्यमान हो उनमें दुःख सुख हो ही नहीं सकते । क्योंकि दुःख के रहने का स्थान मन है। मन जिस वस्तु को आत्मा के अनुकूल समझता है उसके प्राप्त करने की इच्छा करता है। इसी का नाम राग है। यदि वह जिस वस्तु से प्यार करता है यदि मिल जाती है तो वह सुख मानता है। यदि नहीं मिलती तो दुःख मानता है। जिस वस्तु की मन इच्छा करता है उसके प्राप्त करने के लिए दो प्रकार के कर्म होते हैं। या तो हिंसा व चोरी करता है या दूसरों का उपकार व दान आदि सुकर्म करता है। सुकर्म का फल सुख और दुष्कर्मों का फल दुःख होता है परन्तु जब तक दुःख सुख दोनों का भोग न हो तब तक मनुष्य शरीर नहीं मिल सकता !

कुल पेज दृश्य

About Us

About Us
Gyan Vigyan Brhamgyan (GVB the university of veda)

यह ब्लॉग खोजें

Contribute

Contribute
We are working for give knowledge, science, spiritulity, to everyone.

Ad Code

अग्ने नय सुपथा राये अस्मान्‌ Explanation



अग्ने नय सुपथा राये अस्मान्‌ विश्वानि देव वयुनानि विद्वान्‌। युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम‍उक्तिं विधेम ॥

॥ लिप्यन्तरणम् ॥

agne naya supathā rāye asmān viśvāni deva vayunāni vidvān | yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṁ te namauktiṁ vidhema ||

॥ अन्वयः ॥

अग्ने अस्मान् राये सुपथा नय। देव विश्वानि वयुनानि विद्वान् अस्मत् जुहुराणाम् एनः युयोधि ते भूयिष्ठां नम विधेम ॥

॥ अन्वयलिप्यन्तरणम् ॥

agne asmān rāye supathā naya| deva viśvāni vayunāni vidvān asmat juhurāṇām enaḥ yuyodhi te bhūyiṣṭhāṁ nama vidhema ||

॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

प्रकृतिविविक्तात्मानुस्मरणपूर्वकं भगवदनुस्मरणमुक्तम् । अथ गतिचिन्तनमुच्यते प्रार्थनामुखेन - अग्न इति ।

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।

युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्ति विधेम ॥१८॥

अग्ने - अग्रं नयतीत्यग्निः, ऊर्ध्वगतिप्रापक, आश्रितानूर्ध्वं नयति हि भगवान्, सुपथा - शोभनेन मार्गेण अर्चिरादिमार्गेण, राये मुक्तै श्वर्याय, अस्मान्नय - त्वमसि समाश्रितानामुद्धर्ता, तव हार्दस्यानुग्रहेण शताधिकया नाड्या निर्गत्याचिरादिना ब्रह्मलोकमभिसंभवानीति भावः । तदर्थं मम प्रारब्धव्यतिरिक्तं सञ्चितमखिलं प्रामादिकं चोत्तरमेन:, अस्मत् - अस्मत्सकाशात्, युयोधि - विश्लेषय, पुण्यमपि मुमुक्ष्वपेक्षयैनश्शब्देन निर्दिश्यते । तच्चैनो जुहुराणम् - कुटिलम्, दुर्मोचमिति यावत् । तत्कथमहं मोचयितुं शक्त इति मा वोचः, हे देव ! त्वं विश्वानि वयुनानि विद्वान् सर्वज्ञोऽसीति यावत् । पापपुण्ययोश्शत्रुमित्रेष्ववकाशदानेन मत्तो वियोजय, त्वं हि सर्वं जानासीति भावः । एतेन “सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्यामि"त्येतदनुस्मृतं भवति ।

ननु सर्वज्ञेनापि मया नान्यदीयमन्यत्र योज्यते निर्निमित्तम्, तदस्ति किञ्चिदुपायानुष्ठानं त्वयीत्यत्राह - भूयिष्ठां ते नम उक्ति विधेम अद्य तु वयं मुमूर्षवश्शिथिलकरणा:, यावदासीन्नः करणशक्तिस्तावत्त्वनुष्ठितं यथाविहितमुपासनम्, तदेव स्मारितश्चासि कृतं स्मरेति, अधुनापि वाग्व्यापारसाध्यं नम उक्तिम् - नमश्शब्दोच्चारणम् विधेम - विदध्महे, एतावत्यद्य नश्शक्तिरिति भावः । विदध्मह इत्यर्थे विधेमेति व्यत्ययोऽयं छान्दसः ।

आत्महविषः परमात्मनि समर्पणरूपप्रपत्तिः

यद्वा मन्त्रद्वयमिदम् उपासनाऽशक्तस्य शरणागतिं प्रदर्शयति शरणागतिर्ह्यात्मसमर्पणमोमिति निर्देशाद्व्यज्यते, "ब्रह्मणे त्वामहस ओ" मिति प्रणवेन ह्यात्महविस्समर्पणं श्रूयते; समर्प्यमाणहविषस्संस्कारो यथा प्रोक्षणादिकं तथाऽत्रात्महविषस्संस्कारः प्रकृतिविविक्ततया यथाऽवस्थितवेषेण ज्ञानम्, सोऽयं संस्कारः प्रथमं क्रियते 'वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ' इति । एवं संस्कृतमात्मानमोमिति ब्रह्माग्नौ प्रक्षिप्य प्रार्थनीयं प्रार्थयते - क्रतो स्मरेति । शक्तास्तु केचित्स्वयं धीराः योगधारणया त्वां धारयन्तो मनस्यव्यग्रे नियतकालमविच्छिन्नमनुदिनमनुस्मरन्ति, स्मरन्ति चान्तकालेऽपि, अहं पुनरसमर्थस्तथा स्मर्तुम्, त्वमेव समये स्मर । सर्वमुक्तिप्रसङ्गपरिहाराय व्याजमात्रं वा यद्यपेक्षसे तर्हि कृतं स्मर यत्किञ्चिदानुकूल्यसङ्कल्पादिकमधुना कृतं तदेव स्मर, अथ चायमनन्यसामान्यो मादृशाऽकिञ्चनजनसमुचितस्त्वमेवोपायभूतो मे भवेति प्रार्थनामतिरूपोपायानुष्ठानप्रकारो जागर्ति, तदहं प्रार्थये भवन्तम् । अग्ने नय सुपथा रायेऽस्मान् - वयं मार्गमपि न जानीमः, नाप्युपायान्तरम् त्वामेकमेव जानीमः, तत्त्वमेवोपायो भूत्वा यो मार्गश्शोभनस्तेन नय । अहमज्ञः, किं हितं जानीयाम् त्वमसि विश्वानि देव वयुनानि विद्वान् - त्वमसि देवः, यस्सृष्टिस्थितिसंहरणैः क्रीडसि, तस्य ते जुहुराणमेनो मदीयमिति कियन्मात्रम् । मत्तस्सकाशाद्वियोजय तत् । वियोज्य क्व नेयमिति तु नाहं जानामि । नाशय वाऽन्यं प्रापय वा । ततस्त्वं किं फलमभिलषितं पृच्छसि ?, नास्माकं किञ्चित्फलमाकाङ्क्षितमन्यत्, यतो वयं स्वतो दासास्तव, तत्, तदानीमपि दास्यानुरूपां तुभ्यं नम उक्तिमेव विधेमहि - दासवृत्तिमेव प्रार्थयामहे इति भावः । विशेषस्तु संप्रदायगम्यः ॥१८॥

अत्रायमुपनिषदर्थसङ्ग्रहः

ईशाभिव्याप्यमेतज्जगदखिलमिह त्यक्तसङ्गो मुमुक्षुर्भुञ्जीत स्वानुरूपं न धनमभिलषेत्कर्मकुर्यादसङ्गः ।

योऽनात्मज्ञस्स सक्तो निपतति निरये तन्मुमुक्षोरसङ्गं यत्प्रोक्तं चित्तशुद्ध्यै प्रभवति ननु तत्कर्म बन्धाय न स्यात् ॥१॥

विज्ञेयो निश्चलत्वप्रभृतिगुणगणैर्व्याप्यतोऽस्माद्विधर्मा विश्वव्यापी स ईशः श्रितजनसुगमो दुर्लभश्चेतरेषाम् । 

तस्मिन्सर्वाणि भूतान्यपि च तमखिलेष्वेषु पश्यन्जुगुप्सां कुर्यान्न क्वापि शोकादिकमपि न ततस्स्यादिहैकात्म्यदृष्टया ॥२॥

एवम्भूतात्मदृष्टिः प्रविशति परितश्चेतसा ब्रह्म शुद्धम् याथातथ्येन सोऽर्थान्कलयति मनसा शास्त्रदृष्टांश्चिराय । सत्यप्यङ्गाङ्गिभावे श्रयति य इह धीकर्मणोरेकमेकम् सोऽनर्थस्यास्पदं स्याच्छ्रयति तदुभयं यस्तु तस्यामृतं स्यात् ॥३॥

एषा दैवी हि माया सपदि गुणमयी दुर्निवारा तदेनां देवं तं तु प्रपद्य प्रशममुपनयेद्दिव्यरूपं तदीयम् ।

दुष्प्रेक्षं तेजसाऽपि प्रभवति कृपया वीक्षितुं तस्य कश्चित् तस्मिन्न्यस्यात्मभारं व्रजति किमपि शं तत्पथा शोभनेन ॥४॥

सारार्थसंग्रहः

येन व्याप्तं समस्तं जगदिदमपि यत्प्रीणनं कर्म सर्वं योऽनन्ताश्चर्यशक्तिः शुभगुणनिलयो यत्र सर्वात्मदृष्ट्या । 

शोकादेर्नावकाशः प्रविशति परमं धाम यस्य प्रपत्त्या स्वामी नारायणोऽयं स जयति गदितो वाजिनां संहितान्ते ॥५॥

॥ इति श्रीमद्भगवत्स्वामिनारायणचरणकमलपरिचर्य्यापरायणसकलतन्त्रपारावारपारीणपरमहंसवर्य्ययोगिराज श्रीगोपालानन्दस्वामिविरचितम् ईशोपनिषदः स्वामिनारायणमूलभाष्यं समाप्तम् ॥

॥ आङ्गल-अर्थः ॥

O god Agni, knowing all things that are manifested, lead us by the good path to the felicity; remove from us the devious attraction of sin. To thee completest speech of submission we would dispose.

॥ हिन्दी-अर्थः ॥

सब व्यक्त वस्तुओं के जानने वाले हे अग्निदेव! हमे सुपथ से, उत्तम मार्ग से आनन्द की ओर ले चल; पाप का कुटिलतापूर्ण आकर्षण हमसे हटा दे, दूर कर दे। तेरे प्रति अन्तर्नमन (समर्पण) की सर्वाङ्गपूर्ण वाणी (स्तोत्र) हम निवेदित करें।

॥ शब्दावली ॥

देव अग्ने - deva agne - O god Agni!

विश्वानि वयुनानि - viśvāni vayunāni - all things that are manifested

विद्वान् - vidvān - knowing

अस्मान् - asmān - us

राये - rāye - to the felicity

सुपथा - supathā - by the good path

नय - naya - lead

अस्मत् - asmat - from us

जुहुराणाम् एनः - juhurāṇām enaḥ - the devious attraction of sin

युयोधि - yuyodhi - remove

ते - te - to thee

भूयिष्ठाम् - bhūyiṣṭhām - completest

नम उक्तिम् - nama uktim - speech of submission

विधेम - vidhema - we would dispose

॥ अथ उपनिषद् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ