Ad Code

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं



अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्य७मानाः। जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥

लिप्यन्तरणम्

avidyāyāmantare vartamānāḥ svayaṁ dhīrāḥ paṇḍitaṁ manya7mānāḥ | jaṅghanyamānāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ ||

अन्वयः

अविद्यायाम् अन्तरे वर्तमानः स्वयं धीराः पण्डितं मन्यमानः जङ्घन्यमानाः मूढाः अन्धेन एव नीयामानाः अन्धाः यथा परियन्ति ॥

अन्वयलिप्यन्तरणम्

avidyāyām antare vartamānaḥ svayaṁ dhīrāḥ paṇḍitaṁ manyamānaḥ jaṅghanyamānāḥ mūḍhāḥ andhena eva nīyāmānāḥ andhāḥ yathā pariyanti ||

सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥

[ अविदुषां निन्दा ]

अविद्यायामन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः ।

जङ्घन्यमानाः परियन्ति मूढा अन्धेनैव नीयमाना यथाऽन्धाः ॥८॥

अविचारितकर्मस्वरूपाः पण्डितम्मन्याः स्वयं धीराः न परोपदेशश्रवणादिना, अत एवाविद्यायां मध्ये वर्तमानाः, अविद्यामध्यनिमग्ना इति यावत् जङ्घन्यमानाः जन्मजरादिभिर्निहन्यमाना:, मूढाः, अन्धेन नीयमाना अन्धा इव परियन्ति परितोऽनर्थबहुलेष्वेवाटन्ति । न सुखलवभागिन एते ॥८॥

आङ्गल-अर्थः

They who dwell shut within the Ignorance and they hold themselves for learned men thinking “We, even we are the wise and the sages”-fools are they and they wander around beaten and stumbling like blind men led by the blind.

हिन्दी-अर्थः

'अविद्या' के अन्दर बन्द रहने वाले ये लोग जो स्वयं को विद्वान् मानकर सोचते हैː ''हम भी विद्वान् तथा पण्डित हैं'', वस्तुतः मूढ हैं, तथा वे उसी प्रकार चोटें तथा ठोकरें खाते हुए भटकते हैं जैसे अन्धे के द्वारा ले जाया गया अन्धा।

शब्दावली

अविद्यायाम् - avidyāyām - the Ignorance

अन्तरे - antare - within

वर्तमानः - vartamānaḥ - dwelling

स्वयम् - svayam - themselves

धीराः - dhīrāḥ - the wise

पण्डितम् - paṇḍitam - learned men

मन्यमानः - manyamānaḥ - holding or thinking

जङ्घन्यमानाः - jaṅghanyamānāḥ - beaten and stumbling

मूढाः - mūḍhāḥ - fools are they and

अन्धेन एव - andhena eva - by the blind

नीयामानाः अन्धाः - nīyāmānāḥ andhāḥ - blind men led

परियन्ति - pariyanti - they wander around


Post a Comment

0 Comments

Ad Code