प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म। एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥
॥ लिप्यन्तरणम् ॥
plavā hyete adṛḍhā yajñarūpā aṣṭādaśoktamavaraṁ yeṣu karma | etacchreyo ye'bhinandanti mūḍhā jarāmṛtyuṁ te punarevāpi yanti ||
॥ अन्वयः ॥
एते हि अष्टादश यज्ञरूपाः प्लबाः अदृढाः येषु अवरं कर्म उक्त्वम्। ये मूढाः एतत् श्रेयः इति अभिनन्दन्ति ते पुनः अपि जरामृत्युं यन्ति एव ॥
॥ अन्वयलिप्यन्तरणम् ॥
ete hi aṣṭādaśa yajñarūpāḥ plabāḥ adṛḍhāḥ yeṣu avaraṁ karma uktvam| ye mūḍhāḥ etat śreyaḥ ( iti ) abhinandanti te punaḥ api jarāmṛtyuṁ yanti eva ||
॥ सुबोधिनीभाष्यम् - गोपालानन्दस्वामिरचितम् ॥
[ कर्मणाम् अस्थिरत्वम् ]
तदेवं सत्यलोके गतानामपि पुनरावृत्तिरवर्जनीयेति, कामनया क्रियमाणानि सर्वाणि कर्माणि परिमितफलान्येवेत्याह- प्लवा ह्येत इति ।
प्लवा ह्येते दृढा यज्ञरूपा अष्टादशोत्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापियन्ति ॥७॥
प्लवा ह्येते अदृढा यज्ञरूपाः संसारसागरे निमज्जतां जनानामेते यज्ञरूपाः प्लवा अदृढाः, पारप्रापणासमर्थाः । यज्ञा विशिष्यन्ते - अष्टादशेति । लाक्षणिकोऽयं निर्देशः । षोडशत्विजः पत्नी यजमानश्चेत्यष्टादशभिर्निर्वर्त्यत्वात् । अष्टादशभिः साध्या इत्यर्थः । ननु कथं निन्द्यते अदृढाः प्लवा इति ? यान्येव प्राक् 'तान्याचरत सत्यकामा ' इति श्रेयसे विहितानीत्यत्राह उक्तमवरं येषु कर्मेति । येषु फलकामनया क्रियमाणेषु यज्ञेषु सम्बद्धं कर्म, अवरमुक्तम् - अपकृष्टतया तत्त्वयाथात्म्यविद्भिरुक्तम् । उक्तंच भगवता 'दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय' (भगवद्गीता - २.४९) इति । तद्युक्तमेते प्लवा अदृढा यज्ञरूपा इति । ये पुनरेतदेव श्रेयःसाधनं नान्यदित्येतत्साध्ये स्वर्गादावेवाभिनन्दन्ति, ते मूढाः पुनः पुनर्जरामृत्यू प्राप्नुवन्ति ॥७॥
॥ आङ्गल-अर्थः ॥
But frail are the ships of sacrifice, frail these forms of sacrifice, all the eighteen of them, in which are declared the lower works; fools are they who hail them as the highest good and they come yet again to this world of age and death.
॥ हिन्दी-अर्थः ॥
किन्तु ये यज्ञरूपी नौकाएँ अतिजर्जर हैं, ये अठारह के अठारह ये अदृढ हैं जिनमें अवरकर्मो (निम्न-कर्मो) के विधान का कथन किया गया है; मूढ हैं वे जन, जो इनको श्रेय मानकर अभिनन्दन करते हैं, वे इस जरा-मृत्यु के लोक में पुनरावर्तन करते हैं।
॥ शब्दावली ॥
एते हि - ete hi - all these
अष्टादश - aṣṭādaśa - eighteen
यज्ञरूपाः - yajñarūpāḥ - forms of sacrifice
प्लबाः - plabāḥ - ships
अदृढाः - adṛḍhāḥ - frail
येषु - yeṣu - in which
अवरम् कर्म - avaram karma - the lower works
उक्त्वम् - uktvam - are declared
ये मूढाः - ye mūḍhāḥ - fools are they who
एतत् श्रेयः - etat śreyaḥ - as the highest good
अभिनन्दन्ति - abhinandanti - hail them
ते - te - they
पुनः अपि - punaḥ api - yet again
जरामृत्युम् - jarāmṛtyum - to this world of age and death
यन्ति एव - yanti eva - come
0 Comments
If you have any Misunderstanding Please let me know